SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 5 F Fest परात्माऽऽयत्तता चैव योगकल्पतरोः फलम् ।।३।। योगसिद्धैः श्रुतेष्वस्य बहुधा दर्शितं फलम् । दर्श्यते लेशतश्चैतद्यदन्यैरपि दर्शितम् ॥४॥ शास्त्रस्येति । इयमाद्या चतुःश्लोकी सुगमा ।।१-२-३-४ ।। अतीताऽनागतज्ञानं परिणामेषु संयमात् । शब्दाऽर्थधीविभागे च सर्वभूतरुतस्य धीः ।।५।। अतीतेति । संयमो नाम धारणाध्यानसमाधित्रयमेकविषयम् । यदाह- "त्रयमेकत्र संयमः” इति (योगसूत्र ३-४) । एतदभ्यासात् खलु हेयज्ञेयादिप्रज्ञाप्रसर इति पूर्वभूमिषु ज्ञात्वोत्तरभूमिष्वयं विनियोज्यः । ___ तदाह- “तज्जयात्प्रज्ञालोकः"(योगसूत्र ३-५) “तस्य भूमिषु विनियोग इति" (योगसूत्र ३-६) । ततः परिणामेष धर्मलक्षणाऽवस्थारूपेषु संयमाऽञ्चितस्य सर्वार्थग्रहणसामर्थ्यप्रतिबन्धकविक्षेपपरिहारात् अतीताऽनागतज्ञानं = अतिक्रान्ताऽनुत्पन्नाऽर्थपरिच्छेदनं योगिनो भवति। तदुक्तं- “परिणामत्रयसंयमादतीताऽनागतज्ञानमिति" (योगसत्र ३-१६)। ___शब्दः = श्रोत्रेन्द्रियग्राह्यनियतक्रमवर्णात्मा, क्रमरहितः स्फोटात्मा ध्वनिसंस्कृतबुद्धिग्राह्यो ॥ वा, अर्थो = जातिगुणक्रियादिः, धीः = विषयाकारा बुद्धिवृत्तिः, एता हि गौरिति शब्दो ||४५०।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy