________________
5 F Fhoto .
गौरित्यर्थो गौरिति च धीरित्यभेदेनैवाऽध्यवसीयन्ते, 'कोऽयं शब्दः ?' इत्यादिषु प्रश्नेषु गौरयमित्येकरूपस्यैवोत्तरस्य प्रदानात् । तस्य चैकरूपप्रतिपत्तिनिमित्तकत्वात् । तत एतासां विभागे (= शब्दार्थधीविभागे) च 'इदं शब्दस्य तत्त्वं 'यद्वाचकत्वं नाम, इदं चाऽर्थस्य यद्वाच्यत्वं, इदं च धियो यत्प्रकाशकत्वमित्येवंलक्षणे संयमात् (सर्वभूतरुतस्य=) सर्वेषां भूतानां मृग-पशु-पक्षि-सरीसृपादीनां रुतस्य = शब्दस्य धीः भवति ‘अनेनैवाऽभिप्रायेण अनेन प्राणिनाऽयं शब्दः समुच्चरित' इति ।
तदुक्तं- “शब्दाऽर्थप्रत्ययानामितरेतराऽध्यासात्सङ्करस्तत्र' प्रविभागसंयमात्सर्वभूतरुत ज्ञानमिति” (योगसूत्र ३-१७) ।।५।।
संस्कारे पूर्वजातीनां प्रत्यये परचेतसः ।
शक्तिस्तम्भे तिरोधानं कायरूपस्य संयमात् ॥६॥ ___संस्कार इति । संस्कारे स्मृतिमात्रफले जात्यायुर्भोगलक्षणे च “एवं मया सोऽर्थोऽनुभूतः, | एवं मया सा क्रिया कृता" इति भावनया संयमात पूर्वजातीनां = प्रागनुभूतजातीनां धीः = अनुस्मृतिरवबोधकमन्तरेणैव भवति ।
तदुक्तं- “संस्कारस्य साक्षात्करणात पूर्वजातिज्ञानम" (योगसूत्र ३-१८)। १. मुद्रितप्रती 'मद्वाचकत्वं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ....काशत्व...' इति त्रुटितः पाठः । ३. हस्तादर्श 'तत्..' इति पाठः । ४. मुद्रितप्रतौ 'प्रतिभाग..' इत्यशुद्धः पाठः । ५. हस्तादर्श '..भूतरुतरत...' इत्यशुद्धः पाठः। ६. हस्तादर्श 'शक्तिस्तम्भति' इति पाठः । ७. हस्तादर्श '....मन्तरेणेव' इत्यशुद्धः पाठः ।
४५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org