SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 5he R ho tক ग मा हा त्म्य द्वा त्रिं शि का २६/६ Jain Education International प्रत्यये परकीयचित्ते केनचिन्मुखरागादिना लिङ्गेन गृहीते परचेतसो धीर्भवति । तथासंयमवान् 'सरागमस्य चित्तं वीतरागं वेति' परचित्तगतान् सर्वानेव धर्मान् जानातीत्यर्थः । तदुक्तं - " प्रत्ययस्य परचित्तज्ञानम् " ( योगसूत्र ३ - १९) । “न च तत्सालम्बनं तस्याऽविषयीभूतत्वादिति ” ( योगसूत्र ३ - २० ) । लिङ्गाच्चित्तमात्रमवगतम्, न तु नीलविषयं पीतविषयं वा तदिति । अज्ञाते आलम्बने संयमस्य कर्तु - मशक्यत्वात्तदनवगतिः । सालम्बनचित्तप्रणिधानोत्थसंयमे तु तदवगतिरपि भवत्येवेति भोजः । = कायः = शरीरं, तस्य रूपं = चक्षुर्ग्राह्यो गुणः, तस्य ( = कायरूपस्य) २' अस्त्यस्मिन् काये रूपमिति संयमाद् रूपस्य चक्षुर्ग्राह्यत्वरूपायाः शक्तेः स्तम्भे = भावनावशात्प्रतिबन्धे ( = शक्तिस्तम्भे ) सति तिरोधानं भवति चक्षुषः प्रकाशरूपस्य सात्त्विकस्य धर्मस्य तद्ग्रहणव्यापाराऽभावात् । तथा संयमवान् योगी न केनचिदृश्यत इत्यर्थः । एवं शब्दादितिरोधानमपि ज्ञेयम् । तदुक्तं- “कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुषः (क्षुःप्र) प्रकाशाऽसं (प्र) योगेऽन्तर्धानम् ” ( योगसूत्र ३ - २१) । “ एतेन शब्दाद्यन्तर्धानमुक्तम्” ( योगसूत्र ३ - २२ ) इति ।।६।। १. मुद्रितप्रतिषु हस्तादर्शेषु च 'न च साल..' इति पाठः । योगसूत्रानुसारेणाऽपेक्षितः पाठोऽत्र योजितः । * .... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । २. मुद्रितप्रतिषु हस्तादर्शेषु च 'नास्त्य...' इत्येव पाठः । परं स प्रामादिकः । 'अस्त्य...' इत्येव सम्यक् पाठः । For Private & Personal Use Only ।।४५२ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy