________________
5he R ho tক
ग
मा
हा
त्म्य
द्वा
त्रिं
शि
का
२६/६
Jain Education International
प्रत्यये
परकीयचित्ते केनचिन्मुखरागादिना लिङ्गेन गृहीते परचेतसो धीर्भवति । तथासंयमवान् 'सरागमस्य चित्तं वीतरागं वेति' परचित्तगतान् सर्वानेव धर्मान् जानातीत्यर्थः ।
तदुक्तं - " प्रत्ययस्य परचित्तज्ञानम् " ( योगसूत्र ३ - १९) ।
“न च तत्सालम्बनं तस्याऽविषयीभूतत्वादिति ” ( योगसूत्र ३ - २० ) । लिङ्गाच्चित्तमात्रमवगतम्, न तु नीलविषयं पीतविषयं वा तदिति । अज्ञाते आलम्बने संयमस्य कर्तु - मशक्यत्वात्तदनवगतिः । सालम्बनचित्तप्रणिधानोत्थसंयमे तु तदवगतिरपि भवत्येवेति भोजः ।
=
कायः = शरीरं, तस्य रूपं = चक्षुर्ग्राह्यो गुणः, तस्य ( = कायरूपस्य) २' अस्त्यस्मिन् काये रूपमिति संयमाद् रूपस्य चक्षुर्ग्राह्यत्वरूपायाः शक्तेः स्तम्भे = भावनावशात्प्रतिबन्धे ( = शक्तिस्तम्भे ) सति तिरोधानं भवति चक्षुषः प्रकाशरूपस्य सात्त्विकस्य धर्मस्य तद्ग्रहणव्यापाराऽभावात् । तथा संयमवान् योगी न केनचिदृश्यत इत्यर्थः ।
एवं शब्दादितिरोधानमपि ज्ञेयम् । तदुक्तं- “कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुषः (क्षुःप्र) प्रकाशाऽसं (प्र) योगेऽन्तर्धानम् ” ( योगसूत्र ३ - २१) । “ एतेन शब्दाद्यन्तर्धानमुक्तम्” ( योगसूत्र ३ - २२ ) इति ।।६।।
१. मुद्रितप्रतिषु हस्तादर्शेषु च 'न च साल..' इति पाठः । योगसूत्रानुसारेणाऽपेक्षितः पाठोऽत्र योजितः । * .... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । २. मुद्रितप्रतिषु हस्तादर्शेषु च 'नास्त्य...' इत्येव पाठः । परं स प्रामादिकः । 'अस्त्य...' इत्येव सम्यक् पाठः ।
For Private & Personal Use Only
।।४५२ ।।
www.jainelibrary.org