SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ... FF hot संयमात् कर्मभेदानामरिष्टेभ्योऽपरान्तधीः । मैत्र्यादिषु बलान्येषां हस्त्यादीनां बलेषु च ।।७।। ___ संयमादिति । कर्मभेदाः सोपक्रम-निरुपक्रमादयस्तत्र यत्फलजननाय सहोपक्रमेण कार्यकारणाऽऽभिमुख्येन वर्तते, यथोष्णप्रदेशे प्रसारितमार्द्र वस्त्रं शीघ्रमेव शुष्यति । निरुपक्रम च विपरीतं, यथा तदेवाऽऽर्द्र वासः पिण्डीकृतमनुष्णे देशे चिरेण शोषमेतीति । ___एवमन्येऽपि । तेषां (=कर्मभेदानां) संयमाद् = 'इदं शीघ्रविपाकमिदं च मन्दविपाकमि'त्याद्यवधान'दाढ्यजनिताद् अरिष्टेभ्यः = आध्यात्मिकाधिऽऽभौतिकाऽऽधिदैविकभेदभिन्नेभ्यः कर्णपिधानकालीनकोष्ठ्यवायुघोषाऽश्रवणाऽऽकस्मिकविकृतपुरुषाऽशक्यदर्शनस्वर्गादिपदार्थदर्शनलक्षणेभ्यः (अपरान्तधीः =) अपरान्तस्य = करणशरीरवियोगस्य धीः = नियतदेशकालतया निश्चयः । सामान्यतः संशयाऽऽविलतद्धियोऽरिष्टेभ्योऽयोगिनामपि सम्भवादिति ध्येयम् । तदुक्तं"सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वेति" ।(योगसूत्र ३-२२) मैत्र्यादिषु मैत्री-प्रमोद-कारुण्य-माध्यस्थ्येषु संयमात् एषां मैत्र्यादीनां बलानि भवन्ति, मैत्र्यादयस्तथा प्रकर्ष गच्छन्ति यथा सर्वस्य मित्रत्वादिकं प्रतिपद्यते योगीत्यर्थः । तदुक्तं + ।।।।४५३।। । १. हस्तादर्श 'प्रासा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ...धानधायज..." इत्यशुद्धः पाठः । ३. हस्तादर्श 'निरुपक्रम' पदं नास्ति । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy