________________
/ “मैत्र्यादिषु बलानि” (योगसूत्र ३-२३) ।
बलेषु च = हस्त्यादिसम्बन्धिषु संयमात् हस्त्यादीनां बलान्याविर्भवन्ति सर्वसामर्थ्ययुक्तत्वात्, नियतबलसंयमेन नियतबलप्रादुर्भावात् । एवं विषयवत्या' ज्योतिष्मत्याश्च प्रवृत्तेः सात्त्विकप्रकाशप्रसरस्य विषयेषु संन्यासात् सूक्ष्म-व्यवहित-विप्रकृष्टाऽर्थज्ञानमपि द्रष्टव्यम्, सान्तःकरणेन्द्रियाणां प्रशक्तिताऽऽपत्तेः । तदुक्तं “प्रवृत्त्यालोकसंन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानमिति” (योगसूत्र ३-२५) ।।७।।
सूर्ये च 'भुवनज्ञानं ताराव्यूहे 'गतिर्विधौ ।
ध्रुवे च तद्गते भिचक्ने व्यूहस्य वर्मणः ।।८।। सूर्ये चेति । सूर्ये च प्रकाशमये संयमाद् भुवनानां सप्तानां लोकानां ज्ञानं (= भुवनज्ञानं) | भवति । तदुक्तं- “भुवनज्ञानं सूर्ये(य)संयमात्” (योगसूत्र ३-२६) । ताराव्यूहे = ज्योतिषां विशिष्टसंनिवेशे संयमाद् विधौ = चन्द्रे गतिः = ज्ञानं भवति, सूर्याऽऽहततेजस्कतया ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्नोति भवितुमिति पृथगयमुपायोऽभिहितः। तदुक्तं- “चन्द्रे ताराव्यूहज्ञानम्” (योगसूत्र ३-२७)। ___ध्रुवे च निश्चले ज्योतिषां प्रधाने संयमात्तासां ताराणां गतेः (=तद्गतेः) नियत१. मुद्रितप्रतौ 'विषय वत्या' इत्येवमस्थानच्छिन्नः पाठः । २. हस्तादर्श 'च न ता...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'गतिविधौ' इत्यशुद्धः पाठः । ४. हस्तादर्श 'समानां' इत्यशुद्धः पाठः ।
२६/८
||४५४||
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org