________________
॥
देशकालगमनक्रियाया गतिर्भवति, ‘इयं तारा इयता कालेन अमुं राशिमिदं वा क्षेत्रं यास्यतीति । तदुक्तं- “ध्रुवे तद्गतिज्ञानं” (योगसूत्र ३-२८)। नाभिचक्रे = शरीरमध्यवर्तिनि समग्राङ्गसन्निवेशमूलभूते संयमात् वर्मणः कायस्य व्यूहस्य' रस-मल-नाड्यादीनां स्थानस्य गतिर्भवति । तदुक्तं- “नाभिचक्रे कायव्यूहज्ञानं" (योगसूत्र ३-२९) ।।८।।
क्षुत्तृड्व्ययः कण्ठकूपे कूर्मनाड्यामचापलम् । ___ मूर्धज्योतिषि सिद्धानां दर्शनं च प्रकीर्तितम् ॥९॥ क्षुदिति । कण्ठे = गले कूप इव (=कण्ठकूपे) कूपो गर्ताकारः प्रदेशस्तत्र संयमात् क्षुत्तृषोळयो (=क्षुत्तृड्व्ययः) भवति। घण्टिकाश्रोतःप्लावनात्तृप्तिसिद्धेः । तदुक्तं- 'कण्ठकूपे क्षुत्पिपासानिवृत्तिः' (योगसूत्र ३-३०) । कूर्मनाड्यां कण्ठकूपस्याऽधस्ताद्वर्तमानायां संयमात् अचापलं भवति, मनःस्थैर्यसिद्धेः । तदुक्तं- “कूर्मनाड्यां स्थैर्यमिति” (योगसूत्र ३-३१)। ___मूर्धज्योतिर्नाम गृहाऽभ्यन्तरस्य मणेः प्रसरन्ती प्रभेव कुम्भिकादौ प्रदेशे, हृदयस्थ एव सात्त्विकः प्रकाशो ब्रह्मरन्ध्रे सम्पिण्डितत्वं भजन तत्र (= मूर्धज्योतिषि) संयमाच्च सिद्धानां दर्शनं च प्रकीर्तितम् । द्यावापृथिव्योरन्तरालवर्तिनो ये दिव्यपुरुषास्तानेतद्वान् पश्यति, तैश्चाऽयं सम्भाष्यत इति भावः । तदुक्तं- “मूर्धज्योतिषि सिद्धदर्शनम्” (यो.सू. ३-३२)।।९।। १. हस्तादर्श 'व्यूहस्य रस' इति नास्ति । २. हस्तादर्श ‘कूपकण्ठे' इति पदव्यत्यासः । ३. हस्तादर्श 'कू' वर्णो नास्ति ।
४५५।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org