SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ FFER प्रातिभात् सर्वतः संविच्चेतसो' हृदये तथा । स्वार्थे संयमतः पुंसि भिन्ने भोगात्परार्थकात् ।।१०।। प्रातिभादिति । निमित्ताऽनपेक्षं मनोमात्रजन्यं अविसंवादकं झगित्युत्पद्यमानं ज्ञानं प्रतिभा (=प्रातिभम्) । तत्र संयमे क्रियमाणे यदुत्पद्यते ज्ञानं विवेकख्यातेः पूर्वभावि तारकम्, उदेष्यति सवितरीव पूर्वप्रभा, ततः (=प्रातिभात्) सर्वतः संविद् भवति । संयमान्तराऽनपेक्षः सर्वं जानातीत्यर्थः । “प्रातिभाद्वा सर्वम्” (योगसूत्र ३-३३) इत्युक्तेः । तथा हृदये शरीरप्रदेशविशेषेऽधोमुखस्वल्पपुण्डरीकाऽऽकारे (संयमतः) संयमात् चेतसः संवित् स्वपरचित्तगतवासना-रागादिज्ञानं भवति। तदुक्तं- “हृदये चित्तसंवित्" (यो.सू.३-३४)। परार्थकात् = सत्त्वस्य स्वार्थनैरपेक्ष्येण स्वभिन्नपुरुषार्थकाद् भोगात् = सत्त्वपुरुषाऽभेदाऽध्यवसायलक्षणात् सत्त्वस्यैव सुख-दुःखकर्तृत्वाऽभिमानाद् भिन्ने स्वार्थे = स्वरूपमात्राऽऽलम्बने परित्यक्ताहऽङ्कारे सत्त्वे चिच्छायासङ्क्रान्तौ पुंसि संविद् भवति । ___एवम्भूतं स्वाऽऽलम्बनज्ञानं सत्त्वनिष्ठं पुरुषो जानाति, न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते, ज्ञेयत्वाऽऽपत्तेः । ज्ञातृज्ञेययोश्चाऽत्यन्तविरोधादिति भावः । तदुक्तं- “सत्त्वपुरुषयोरत्यन्ताऽसङ्कीर्णयोः प्रत्ययाऽविशेषो' भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानमिति" १. हस्तादर्श 'चेतमोक्षदयो' इत्यशुद्धः पाठः । २. योगसूत्रप्रतिषु बह्वीषु'..प्रत्ययाऽविशेषाद् भोगः परार्थान्यस्वार्थसंयमात् पुरुषज्ञानम्' इति पाठः । प्रकृते च योगसूत्रभाष्यानुसारेण पाठो गृहीतः । द्वात्रिंशिकाहस्तप्रतिषु च ‘भोगः परार्थः स्वार्थ...' इति पाठः । २६/१० ।।४५६।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy