________________
।। (योगसूत्र ३-३५) ।।१०।।
समाधिविघ्ना 'व्युत्थाने सिद्धयः प्रातिभं ततः ।
श्रावणं वेदनाऽऽदर्शाऽऽस्वाद-वार्ताश्च वित्तयः ।।११।। समाधीति । ततः स्वार्थसंयमाऽऽह्वयात् पुरुषसंयमादभ्यस्यमानात् प्रातिभं = पूर्वोक्तं ज्ञानम्, यदनुभावात् सूक्ष्माऽर्थादिकमर्थं पश्यति । श्रावणं = श्रोत्रेन्द्रियजं ज्ञानम्, यस्मात्प्रकृष्टादिव्यं शब्दं जानाति । वेदना = स्पर्शनेन्द्रियजं ज्ञानं, वेद्यतेऽनयेति कृत्वा, तान्त्रिक्या संज्ञया व्यवह्रियते, यत्प्रकर्षादिव्यस्पर्शविषयं ज्ञानमुत्पद्यते आदर्शः = चक्षुरिन्द्रियजं ज्ञानम्, आ = समन्ताद् दृश्यतेऽनुभूयते रूपमनेनेति कृत्वा, यत्प्रकर्षाद्दिव्यरूपज्ञानमुत्पद्यते । आस्वादो = रसनेन्द्रियजं ज्ञानं, आस्वाद्यतेऽनेनेति कृत्वा, यत्प्रकर्षादिव्यरससंविदुपजायते । वार्ता = गन्धसंवित्तिः, वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते, वर्तमाने गन्धविषये प्रवर्तते इति कृत्वा वृत्तौ घ्राणेन्द्रिये भवा वार्ता, यत्प्रकर्षादिव्यो गन्धोऽनुभूयते । एताः च वित्तयो
= ज्ञानानि भवन्ति । तदुक्तं- “ततः प्रातिभश्रावणवेदनादर्शा(र्शना)ऽऽस्वादवार्ता जायन्ते" २६/११ || (योगसूत्र ३-३६) ।
एताश्च समाधेः प्रकर्षं गच्छतः सतो विघ्नाः (= समाधिविघ्नाः), हर्ष-विस्मयादिकरणेन
FFE
||४५७।।
१. हस्तादर्श 'व्युत्थानं' इत्यशुद्धः पाठः । २. हस्तादर्श 'सूक्ष्मार्थदि...' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'स्वादो' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org