SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ । तच्छिथिलीकरणात् । व्युत्थाने = व्यवहारदशायां च समाध्युत्साहजननाद् विशिष्टफलदायकत्वाच्च सिद्धयः । यत उक्तं- “ते समाधावुपसर्गा व्युत्थाने सिद्धयः” (योगसूत्र ३-३७) ।।११।। बन्धकारणशैथिल्यात् प्रचारस्य च वेदनात् । चित्तस्य स्यात् परपुरे प्रवेशो योगसेविनः ।।१२।। बन्धेति । “व्यापकत्वादात्म-चित्तयोर्नियतकर्मवशादेव शरीराऽन्तर्गतयोर्नोग्यभोक्तभावेन यत्संवेदनमुपजायते स शरीरबन्ध इत्युच्यते । ततो बन्धस्य = शरीरबन्धस्य यत्कारणं धर्माऽधर्माख्यं कर्म तस्य शैथिल्यात् = तानवात्' (=बन्धकारणशैथिल्यात्) । प्रचारस्य च = चित्तस्य हृदयप्रदेशादिन्द्रियद्वारेण विषयाऽऽभिमुख्येन प्रसरस्य च वेदनात् = ज्ञानात् = "इयं चित्तवहा नाडी, अनया चित्तं वहति, इयं रस-प्राणादिवहाभ्यो 'विलक्षणेति" स्वपरशरीर सञ्चारपरिच्छेदादित्यर्थः, योगसेविनो = योगाऽऽराधकस्य चित्तस्य परपुरे = मृते जीवति वा परकीयशरीरे प्रवेशः स्यात् । चित्तं च परशरीरं प्रविशदिन्द्रियाण्यनुवर्तन्ते, मधुकरराजमिव मक्षिकाः । ततः परशरीरं प्रविष्टो योगी ईश्वरवत्तेन व्यवहरति. यतो २६/१२ १. मुद्रितप्रतौ 'प्रदेशो' इत्यशुद्धः पाठः । २. हस्तादर्श 'योगसेविन' इति पदं नास्ति । ३. हस्तादर्श 'तानवति' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'तानवानति' इत्यशुद्धः पाठः । ४. हस्ताद” 'हृदयद्वारेण' इति त्रुटितः पाठः । ५. मुद्रितप्रतौ 'विलक्षेति' इत्यशुद्धः पाठः । ...... चिनद्वयवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्शविशेषे नास्ति । ||४५८।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy