________________
FFE
// व्यापकयोश्चित्त-पुरुषयोर्भोगसङ्कोचकारणं कर्माऽभूत्, तच्चेत् समाधिना क्षिप्तं तदा ।
स्वातन्त्र्यात्सर्वत्रैव भोगनिष्पत्तिरिति । तदुक्तं- “बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य. परशरीराऽऽवेशः” इति (योगसूत्र ३-३८) ।।१२।।
समानस्य जयाद्धामो दानस्याऽबाद्यसङ्गता ।
दिव्यं श्रोत्रं पुनः श्रोत्र-व्योम्नोः२ सम्बन्धसंयमात् ।।१३।। समानस्येति। समानस्य = अग्निमावेष्ट्य व्यवस्थितस्य समानाऽऽख्यस्य वायोः जयात् = संयमेन वशीकारान्निरावरणस्याऽग्नेरूर्ध्वगत्वात् धाम तेजः तरणिप्रतापवदवभासमानमाविर्भवति, येन योगी ज्वलन्निव प्रतिभाति । यदुक्तं- “समानजयाज्ज्वलनः(म्)” (योगसूत्र ३-४०) ।
उदानस्य कृकाटिकादेशादाशिरोवृत्तेर्जयादितरेषां वायूनां निरोधादूर्ध्वगतित्वसिद्धेः अबादिना = जलादिना असङ्गता = अप्रतिरुद्धता (=अबाद्यसङ्गता) । जितोदानो हि
योगी •जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु वा कण्टकेषु न सजति, किं तु २६/१३ लघुत्वात्तूलपिण्डवज्जलादावनिमज्जन्नुपरि तेन गच्छतीत्यर्थः। तदुक्तं- ""उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च"(योगसूत्र ३-३९)।
।।।४५९।। १. मुद्रितप्रती ...धामादान...' इत्यशुद्धः पाठः । २. हस्तादर्श 'व्योसे' इत्यशुद्धः पाठः । ३. हस्तादर्श 'तन' इत्यशुद्धः पाठः । ४. हस्तादर्श 'तुदान' इत्यशुद्धः पाठः ।
का
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org