________________
यो
ग
मा
हा
ho ho to
त्म्य
द्वा
त्रिं
शि
का
२६/१४
Jain Education International
श्रोत्रं = 'शब्दग्राहकमाहङ्कारिकमिन्द्रियं व्योम = शब्दतन्मात्रजमाकाशं, तयोः (= श्रोत्रव्योम्नोः) पुनः सम्बन्धसंयमाद् देश-देशिभावसम्बन्धसंयमाद् दिव्यं युगपत्सूक्ष्म-व्यवहितविप्रकृष्टशब्दग्रहणसमर्थं श्रोत्रं भवति ।
तदुक्तं- “श्रोत्राऽऽकाशयोः सम्बन्धसंयमाद्दिव्यं • श्रोत्रम्" ( योगसूत्र ३ - ४१) ।।१३।। लघुतूलसमापत्त्या काय- व्योम्नोस्ततोऽम्बरे ।
गतिर्महाविदेहाऽतः प्रकाशाssवरणक्षयः ।।१४।।
लध्विति । कायः = पाञ्चभौतिकं शरीरम्, व्योम च प्रागुक्तम्, तयोः (= कायव्योम्नोः) ततः = अवकाशदानसम्बन्धसंयमात् (लघुनूलसमापत्त्या = ) लघुनि तूले समापत्त्या तन्मयीभावलक्षणया प्राप्ताऽभ्यन्तरलघुभावतया अम्बरे = आकाशे गतिः स्यात् । उक्तसंयमवान् प्रथमं यथारुचि जले सञ्चरन् क्रमेणोर्णनाभतन्तुजालेन सञ्चरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशे गच्छतीत्यर्थः । तदुक्तं- “कायाऽऽकाशयोः सम्बन्धसंयमाल्लघु ́तूलसमापत्तेरा(श्चा)काशगमनम् ” ( योगसूत्र ३ - ४२) ।
शरीराद् बहिर्या शरीरनैरपेक्ष्येण मनोवृत्तिः सा महाविदेहा इत्युच्यते, शरीराऽहङ्कारविगमात् । अत एवाऽकल्पितत्वेन महत्त्वात्, शरीराऽहङ्कारे सति हि बहिर्वृत्ति१. हस्तादर्शे ‘शब्दग्राहेक' इत्यशुद्धः पाठः । २ हस्तादर्शे 'युपगप...' इत्यशुद्धः पाठः । चिह्नद्वयमध्यवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्शविशेषे नास्ति । ३. हस्तादर्शे 'रश्मिनिश्च' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'लघुत्तल' इत्यशुद्धः पाठः । ५. हस्तादर्शे 'शरतैर...' इत्यशुद्धः पाठः । ६. हस्तादर्शे 'सति न हि' इत्यशुद्धः पाठः ।
For Private Personal Use Only
।।४६० ।।
www.jainelibrary.org