SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ "FFE मनसः कल्पितोच्यते, तस्याः कृतसंयमायाः सकाशात् प्रकाशस्य शुद्धसत्त्वलक्षणस्य यदा- ॥ वरणं क्लेशकर्मादि तत्क्षयः (=प्रकाशाऽऽवरणक्षयः) भवति, सर्वे चित्तमलाः क्षीयन्त इति यावत् । तदुक्तं- “बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशाऽऽवरणक्षयः” (योगसूत्र ३४३) इति ।।१४।। स्थूलादिसंयमाद् भूतजयोऽस्मादणिमादिकम् । कायसम्पच्च तद्धर्माऽनभिघातश्च' जायते ।।१५।। स्थूलादीति । स्थूलादीनि स्थूलस्वरूपसूक्ष्माऽन्वयाऽर्थवत्त्वानि पञ्चानां भूतानामवस्थाविशेषरूपाणि । (१) तत्र भूतानां परिदृश्यमानं विशिष्टाऽऽकारवत्त्वं स्थूलं रूपम् । (२) स्वरूपं च पृथिव्यादीनां कार्कश्य-स्नेहोष्णता-प्रेरणाऽवकाशदानलक्षणम् । (३) सूक्ष्मं च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । (४) अन्वया गुणाः प्रकाशप्रवृत्ति-स्थितिरूपतया सर्वत्रैवोपलभ्यमानाः । (५) अर्थवत्त्वं च तेष्वेव गुणेषु भोगापवर्गसम्पादनशक्तिरूपम् । तेषु क्रमेण प्रत्यवस्थं संयमात् (=स्थूलादिसंयमाद्) भूत जयो भवति। कृतैतत्संयमस्य सङ्कल्पाऽनुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः । तदुक्तं- “स्थूल-स्वरूप-सूक्ष्माऽन्वयाऽर्थवत्त्व संयमाद् भूतजयः” (योगसूत्र ३-४४) इति । अस्माद् भूतजयाद् अणिमादिकं भवति । (१) अणिमा, (२) गरिमा, (३) लघिमा, १. हस्तादर्श ...नभिनयातश्च' इत्यशुद्धः पाठः । ...... चिह्नद्वयवर्ती अग्रेतनपृष्ठव्यापी पाठो हस्तादर्शविशेषे नास्ति । २६/१५ ४६१ ।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy