________________
ग
मा
he है ho to a f
हा
त्म्य
द्वा
त्रिं
शि
का
२६/१६
Jain Education International
(४) महिमा, (५) प्राकाम्यम्, (६) 'ईशित्वम्, (७) वशित्वम्, (८) यत्रकामावसायित्वं चेत्यणिमादिकम्। तत्राऽणिमा परमाणुरूपताऽपत्तिः । गरिमा वज्रवद् गुरुत्वप्राप्तिः । लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । महिमा महत्त्वप्राप्तिः अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता । प्राकाम्यमिच्छाऽनभिघातः । शरीराऽन्तःकरणयोः ईशित्वम् । सर्वत्र प्रभविष्णुता वशित्वम्, यतः सर्वाण्येव भूतानि वचनं नाऽतिक्रामन्ति । यत्रकामावसायित्वं स्वाऽभिलषितस्य समाप्तिपर्यन्तनयनम् ।
कायसम्पच्च उत्तमरूपादिलक्षणा “ रूप लावण्य-बल-वज्रसंहननत्वानि कायसम्पत्” ( योगसूत्र ३-४६) इत्युक्तेः । तद्धर्माऽनभिघातश्च तस्य कायस्य धर्माः रूपादयस्तेषामभिघातो = नाशस्तदभावश्च जायते । न ह्यस्य रूपमग्निर्दहति न वाऽऽपः क्लेदयन्ति, न वा वायुः शोषयतीति । तदिदमुक्तं- “ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्माऽनभिघातश्चेति" ( योगसूत्र ३-४५) ।।१५।।
संयमाद् ग्रहणादीनामिन्द्रियाणां जयस्ततः ।
मनोजवो 'विकरणभावश्च प्रकृतेर्जयः ।। १६ ।।
संयमादिति । ग्रहणादयो ग्रहणस्वरूपाऽस्मिताऽन्वयाऽर्थवत्त्वानि । तत्र ग्रहणं इन्द्रियाणां विषयाऽभिमुखी वृत्तिः । स्वरूपं सामान्येन प्रकाशकत्वम् । अस्मिता
१. मुद्रितप्रती 'ईशत्वं' इति पाठः । २ हस्तादर्शे 'विकरणां...' इत्यशुद्धः पाठः ।
=
=
For Private & Personal Use Only
=
।।४६२ ।।
www.jainelibrary.org