________________
। अहङ्कारानुगमः । अन्वयाऽर्थवत्त्वे प्रागुक्तलक्षणे । तेषां (=ग्रहणादीनां) यथाक्रमं संयमा
दिन्द्रियाणां जयो भवति। तदुक्तं- “ग्रहण-स्वरूपाऽस्मिताऽन्वयार्थवत्त्वसंयमादिन्द्रियजयः" (योगसूत्र ३-४७) इति । ___ततः = इन्द्रियजयाद् मनोजवः = शरीरस्य मनोवदनुत्तमगतिलाभः विकरणभावश्च कायनरपेक्ष्येणेन्द्रियाणां वृत्तिलाभः । प्रकृतेः = प्रधानस्य जयः सर्ववशित्वलक्षणो भवति। तदुक्तं- “ततो मनोजवित्वं विकरणभावः प्रधानजयश्च” (योगसूत्र ३-४८) ।।१६।।
स्थितस्य सत्त्व-पुरुषाऽन्यता ख्यातौ च केवलम् ।
सार्वज्यं सर्वभावानामधिष्ठातृत्वमेव च ।।१७।। स्थितस्येति । केवलं (सत्त्व-पुरुषान्यताख्यातौ =) सत्त्व-पुरुषयोरन्यताख्यातौ गुणकर्तृत्वाभिमानशिथिलीभावलक्षणायां शुद्धसात्त्विकपरिणामरूपायां स्थितस्य च सार्वज्यं सर्वेषां शान्तोदिताऽव्यपदेश्यधर्मत्वेन स्थितानां यथावदिवेकज ज्ञानलक्षणम्, सर्वेषां भावानां (सर्वभावानां=) = गुणपरिणामानां अधिष्ठातृत्वमेव च स्वामिवदाक्रमणलक्षणं भवति । तदुक्तं- “सत्त्व-पुरुषाऽन्यताख्यातिमात्रस्य सर्वभावाऽधिष्ठातृत्वं सर्वज्ञत्वं च” (योगसूत्र ३-४९) ।।१७।। १. हस्तादर्श 'पुरुषाः न्याता...' इत्यशुद्धः पाठः । २. हस्तादर्श'...विवेकजज्ञान...' इति पाठान्तरः । ३. हस्तादर्श '...क्रमणलक्षणलक्षणं' इति अधिकः पाठः ।
२६/१७
||४६३॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org