SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ग मा ho टच् to हा त्म्य द्वा त्रिं शि का २६/१९ Jain Education International स्मृता सिद्धिर्विशोकेयं तद्वैराग्याच्च योगिनः । दोषबीजक्षये नूनं कैवल्यमुपदर्शितम् ।।१८।। स्मृतेति । इयं विशोका सिद्धिः स्मृता । तस्यां विशोकायां सिद्धौ वैराग्याच्च (= तद्वैराग्याच्च) योगिनो = योगभाजः दोषाणां = रागादीनां बीजस्य = अविद्यादेः क्षये = निर्मूलने ( = दोषबीजक्षये) नूनं निश्चितं कैवल्यं = पुरुषस्य गुणानामधिकारपरिसमाप्तेः स्वरूपप्रतिष्ठत्वं उपदर्शितम् । यतः - 'तद्वैराग्यादपि दोषबीजक्षये कैवल्यमिति” ( योगसूत्र ३-५० ) ।।१८।। = = असङ्गश्चाऽस्मयश्चैव स्थितावुपनिमन्त्रणे । बीजं पुनरनिष्टस्य प्रसङ्गः स्यात् किलाऽन्यथा ।। १९ ।। असङ्गश्चेति । उपनिमन्त्रणे उक्तसमाधिस्थस्य देवैर्दिव्यस्त्रीरसायनाद्युपढौकनेन भोगनिमन्त्रणे असङ्गश्चाऽस्मयश्चैव स्थितौ बीजम् । सङ्गकरणे पुनर्विषय प्रवृत्तिप्रसङ्गात् स्मयकरणे च कृतकृत्यमात्मानं मन्यमानस्य समाधावुत्साहभङ्गात् । एतदेवाह- अन्यथा = असङ्गाऽस्मयाऽकरणे पुनः किल इति सत्ये अनिष्टस्य प्रसङ्गः (स्यात्) इति । तदिदमुक्तं- “ ५ स्थान्युपनिमन्त्रणे सङ्ग - स्मयाऽकरणं पुनरनिष्टप्रसङ्गादिति” १ . हस्तादर्शे ‘...समाधिस्थदेवैः' इत्यशुद्धः पाठः । २. हस्तादर्शे 'गकरणे ' इति त्रुटितः पाठः । ३. हस्तादर्शे ' ...षयवृत्ति....' इति पाठः । ४. हस्तादर्शे 'अनिष्टसंग' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ स्थित्य...' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।४६४ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy