________________
ग
मा
ho टच् to
हा
त्म्य
द्वा
त्रिं
शि
का
२६/१९
Jain Education International
स्मृता सिद्धिर्विशोकेयं तद्वैराग्याच्च योगिनः । दोषबीजक्षये नूनं कैवल्यमुपदर्शितम् ।।१८।।
स्मृतेति । इयं विशोका सिद्धिः स्मृता । तस्यां विशोकायां सिद्धौ वैराग्याच्च (= तद्वैराग्याच्च) योगिनो = योगभाजः दोषाणां = रागादीनां बीजस्य = अविद्यादेः क्षये = निर्मूलने ( = दोषबीजक्षये) नूनं निश्चितं कैवल्यं = पुरुषस्य गुणानामधिकारपरिसमाप्तेः स्वरूपप्रतिष्ठत्वं उपदर्शितम् । यतः - 'तद्वैराग्यादपि दोषबीजक्षये कैवल्यमिति” ( योगसूत्र ३-५० ) ।।१८।।
=
=
असङ्गश्चाऽस्मयश्चैव स्थितावुपनिमन्त्रणे ।
बीजं पुनरनिष्टस्य प्रसङ्गः स्यात् किलाऽन्यथा ।। १९ ।।
असङ्गश्चेति । उपनिमन्त्रणे उक्तसमाधिस्थस्य देवैर्दिव्यस्त्रीरसायनाद्युपढौकनेन भोगनिमन्त्रणे असङ्गश्चाऽस्मयश्चैव स्थितौ बीजम् । सङ्गकरणे पुनर्विषय प्रवृत्तिप्रसङ्गात् स्मयकरणे च कृतकृत्यमात्मानं मन्यमानस्य समाधावुत्साहभङ्गात् ।
एतदेवाह- अन्यथा = असङ्गाऽस्मयाऽकरणे पुनः किल इति सत्ये अनिष्टस्य प्रसङ्गः (स्यात्) इति । तदिदमुक्तं- “ ५ स्थान्युपनिमन्त्रणे सङ्ग - स्मयाऽकरणं पुनरनिष्टप्रसङ्गादिति” १ . हस्तादर्शे ‘...समाधिस्थदेवैः' इत्यशुद्धः पाठः । २. हस्तादर्शे 'गकरणे ' इति त्रुटितः पाठः । ३. हस्तादर्शे ' ...षयवृत्ति....' इति पाठः । ४. हस्तादर्शे 'अनिष्टसंग' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ स्थित्य...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।४६४ ।।
www.jainelibrary.org