SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ FF hd (योगसूत्र ३-५१) ।।१९।। स्यात् क्षणक्रमसम्बन्धसंयमाद्यद्विवेकजम् । 'ज्ञानं जात्यादिभिस्तच्च तुल्ययोः प्रतिपत्तिकृत् ।।२०।। ___स्यादिति । क्षणः = सर्वाऽन्त्यः कालाऽवयवस्तस्य क्रमः = पौर्वापर्यं तत्सं(बन्धसं)यमात् (=क्षणक्रमसम्बन्धसंयमात्) सूक्ष्मान्तरसाक्षात्करणसमर्थात् यद्विवेकजं ज्ञानं स्यात् । यदाह"क्षणक्रमयोः सम्बन्धसंयमाद्विवेकजं ज्ञानमिति” (योगसूत्र ३-५२) । तच्च जात्यादिभिस्तुल्ययोः पदार्थयोः प्रतिपत्तिकृत् = विवेचकम् । तदुक्तं- “जाति-लक्षण-देशैरन्यताऽनवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिरिति” (योगसूत्र ३-५३) । पदार्थानां भेदहेतवो हि जाति-लक्षण-देशा भवन्ति । जातिः पदार्थभेत्री, यथा गौरयं महिषोऽयमिति । जात्या तुल्ययोर्लक्षणं भेदकम् , यथा 'इयं कर्बुरा इयं चाऽरुणे'ति । उभाभ्यामभिन्नयोर्देशो भेदहेतुः, यथा तुल्यप्रमाणयोरामलकयोर्भिनदेशस्थितयोः । यत्र च त्रयमपि न भेदकं, यथैकदेशस्थितयोः शुक्लयोः पार्थिवयोः परणाण्वोः, तत्र संयमजनिताद्विवेकजज्ञानादेव भवति भेदधीरिति ।।२०।। तारकं सर्वविषयं सर्वथाविषयाऽक्रमम् । शुद्धिसाम्येन कैवल्यं ततः पुरुष-सत्त्वयोः ।।२१।। तारकमिति । तच्च विवेकजं ज्ञानं तारयत्यगाधात्संसारपयोधेर्योगिनमित्यान्वर्थिक्या । १. हस्तादर्श 'ज्ञाना' इत्यशुद्धः पाठः । २. हस्तादर्श ‘कर्तुरा' इत्यशुद्धः पाठः । ३. हस्तादर्श 'सर्वथा' पदं नास्ति । २६/२१ ||४६५।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy