SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ FFhoto संज्ञया तारकं उच्यते। तथा सर्वविषयं सर्वाणि तत्त्वानि महदादीनि विषयो यस्य तत्तथा। तथा सर्वथा = सर्वैः प्रकारैः सूक्ष्मादिभेदैर्विषयो यस्य तच्च तदक्रमं च (=विषयाऽक्रम) निःशेषनानाऽवस्थापरिणतव्यर्थिकभावग्रहणे क्रमरहितं चेति कर्मधारयः । इत्थं चाऽस्य संज्ञाविषय-स्वभावा व्याख्याताः। तदुक्तं- “तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति” (योगसूत्र ३-५४) । 'ततः = तस्मात् ज्ञानात् पुरुष-सत्त्वयोः शुद्धिसाम्येन कैवल्यं भवति । तत्र पुरुषस्य शुद्धिरुपचरित'भोगाऽभावः । सत्त्वस्य तु सर्वथा कर्तृत्वाऽ•भिमाननिवृत्त्या स्वकारणेऽनुप्रवेश इति । तदिदमुक्तं- “सत्त्व-पुरुषयोः शुद्धिसाम्ये कैवल्यमिति” (योगसूत्र ३-५५) ।।२१।। इत्थमन्यैरुपदर्शिते योगमाहात्म्ये उपपत्त्यनुपपत्त्योर्दिशा प्रदर्शयन्नाह इह सिद्धिषु वैचित्र्ये बीजं कर्मक्षयादिकम् । संयमश्चाऽत्र "सदसत्प्रवृत्तिविनिवृत्तितः ॥२२॥ इहेति । इह प्रागुक्तग्रन्थे सिद्धिषु वैचित्र्ये कर्मक्षयादिकं बीजं, तथाज्ञाने तथाज्ञानावरणक्षयोपशमादेर्वीर्यविशेषे च वीर्यान्तरायक्षयोपशमादेर्हेतुत्वात् । संयमश्चाऽत्र = उक्तसिद्धिषु १. मुद्रितप्रतो'...णतत्वत आ(णता)र्थिक...' इत्यशुद्धः पाठः । २. हस्तादर्श'...मत्रमं' इत्यशुद्धः पाठः । हस्तादर्शविशेषे च 'विक्रम' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ ....चरिता | भोगाभावः' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'पुरुषसत्त्वयोः' इति पदव्यत्यासः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ६. हस्तादर्श 'दिशप्र' इत्यशुद्धः | पाठः । ६. हस्तादर्श 'प्रयन्ना..' इति त्रुटितोऽशुद्धश्च पाठः । ७. हस्तादर्श 'दिवसत्प्र..' इत्यशुद्धः पाठः ।। २६/२२ ४६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy