________________
FFood
सत्प्रवृत्त्यसन्निवृत्तिभ्यां (=सदसत्प्रवृत्तिविनिवृत्तितः) तथाविधक्षयोपशमाद्याधानद्वारैव बीजं न तु तत् तद्विषयज्ञानप्रणिधानादिरूपः, अनन्तविषयकज्ञानस्य प्रतिविषयं संयमाऽसाध्यत्वाद्विहिताऽनुष्ठानप्रणिधानमात्रसंयमेनैव मोहक्षयात्तदुपपत्तेः ।
चित्तप्रणिधानार्थं त्वालम्बनमात्रं क्वाऽपि न वारयामः । केवलमात्मप्रणिधानपर्यवसान एव सर्वः संयमः फलवानित्यात्मनो ज्ञेयत्वं विना सर्वं विलूनशीर्णं भवेदित्यधिकं स्वयमूहनीयम् ।।२२।।
प्रायश्चित्तं पुनर्योगः प्राग्जन्मकृतकर्मणाम् ।
अब्धीनां 'निश्चयादन्तःकोटाकोटिस्थितेः किल ।।२३।। प्रायश्चित्तमिति । (प्राग्जन्मकृतकर्मणाम्=) प्राग्जन्मकृतपाप्मनां पुनः प्रायश्चित्तं योगः, तन्नाशकत्वात् तस्य । तथा किल इति सत्ये । अब्धीनां सागरोपमाणां अन्तःकोटाकोटीस्थितेः निश्चयात् अपूर्वकरणाऽऽरम्भेऽपि तावस्थितिककर्मसद्भावाऽऽवश्यकत्वस्य महाभाष्यादिप्रसिद्धत्वात् तस्य च धर्मसंन्यासैकनाश्यत्वादिति ।।२३।।
निकाचितानामपि यः कर्मणां तपसा क्षयः ।
सोऽभिप्रेत्योत्तमं योगमपूर्वकरणोदयम् ॥२४ ।। १. हस्तादर्श 'निश्चयानन्तः' इत्यशुद्धः पाठः । २. हस्तादर्श '...पापानां' इति पाठान्तरः । ३. हस्तादर्श 'वपसः' इत्यशुद्धः पाठः । ४. हस्तादर्श '...तंसयोगा..' इत्यशुद्धः पाठः ।
२६/२४॥
।।४६७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org