SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ निकाचितानामिति । निकाचितानामपि उपशमनादिकरणान्तरायोग्यत्वेन' व्यवस्थापितानामपि कर्मणां यस्तपसा क्षयो भणित इति शेषः । “तवसा उ निकाइआणं पि” (विशेषावश्यकभाष्य-२०४६) इति वचनात् । सोऽपूर्वकरणोदयं उत्तमं योगं धर्मसंन्यासलक्षणं अभिप्रेत्य, न तु यत्किञ्चित्तप इति द्रष्टव्यम् । तत्त्वमत्रत्यं अध्यात्मपरीक्षादौ विपञ्चितम् ।।२४।। अपि क्रूराणि कर्माणि क्षणाद्योगः क्षिणोति हि । ज्वलनो ज्वालयत्येव कुटिलानपि पादपान् ।।२५।। दृढप्रहारिशरणं चिलातीपुत्ररक्षकः । अपि पापकृतां योगः पक्षपातान्न शङ्कते ।।२६।। अहर्निशमपि ध्यातं योग इत्यक्षरद्वयम् । अप्रवेशाय पापानां ध्रुवं वज्राऽर्गलायते ।।२७।। आजीविकादिनाऽर्थेन योगस्य च विडम्बना । पवनाऽभिमुखस्थस्य ज्वलनज्वालनोपमा ।।२८।। योगस्पृहाऽपि संसारतापव्ययतपात्ययः । महोदयसरस्तीरसमीरलहरीलवः ।।२९।। १. मुद्रितप्रतौ ....करणान्तसंयोग्य(ज्य)त्वेन' इत्यशुद्धः पाठः । २६/२९ ।।४६८।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy