________________
sh,
योगाऽनुग्राहको योऽन्यः परमेश्वर इष्यते । अचिन्त्यपुण्यप्राग्भारयोगाऽनुग्राह्य एव सः ।।३०।। भरतो भरतक्षोणी भुजानोऽपि महामतिः । तत्कालं योगमाहात्म्याद बुभुजे केवलश्रियम् ।।३१।। पूर्वमप्राप्तधर्माऽपि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ।।३२।।
।। इति योगमाहात्म्यद्वात्रिंशिका ।।२६।।
॥ अथ भिक्षुद्वात्रिंशिका ।।२७।। अनन्तरं योगमाहात्म्यमुपदर्शितं तच्च भिक्षौ सम्भवतीति तत्स्वरूपमिहोच्यते -
नित्यं चेतः समाधाय यो निष्क्रम्य गुरूदिते ।
प्रत्यापिबति नो वान्तमवशः' कुटिलभ्रुवाम् ।।१।। नित्यमिति । यो निष्क्रम्य द्रव्यभावगृहात् योग्यतायां सत्यां गुरूदिते = ज्ञानवृद्धवचने (४६९ ।। नित्यं = निरन्तरं चेतः समाधाय = प्रणिधाय वान्तं = परित्यक्तं विषयजम्बालं नो
१. हस्तादर्श 'योन्य' इति पाठः । १. हस्तादर्श'...मविशः' इत्यशुद्धः पाठः । २. हस्तादर्श प्रमेणि...' इत्यशुद्दः पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org