SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ नैव प्रत्यापिबति = पुनराद्रियते अवशः कुटिल वां = पुरन्ध्रीणाम् ।।१।। पृथिव्यादींश्च षटकायान् सुखेच्छूनसुखद्विषः । गणयित्वाऽऽत्मतुल्यान् यो महाव्रतरतो भवेत् ।।२।। पृथिव्यादीनिति- व्यक्तः ।।२।। औदेशिकं न भुञ्जीत त्रसस्थावरघातजम् । बुद्धोक्तध्रुवयोगी यः कषायांश्चतुरो वमेत् ।।३।। औदेशिकमिति । औदेशिकं कृताद्यन्यच्च सावद्यम् । बुद्धोक्तेन = जिनवचनेन ध्रुवयोगी = नित्योचितयोगवान् (=बुद्धोक्तध्रुवयोगी) ।।३।। __ निर्जातरूपरजतो गृहियोगं च वर्जयेत् । सम्यग्दृष्टिः सदाऽमूढस्तपः संयमबुद्धिषु ॥४॥ निर्जातरूपेति । निर्जातरूपरजतो = निर्गतसुवर्णरूप्यः । परिग्रहान्तरनिर्गमोपलक्षणमेतत् । गृहियोगं मूर्च्छया गृहस्थसम्बन्धं (च वर्जयेत्) । सम्यग्दृष्टिः = भावसम्यग्दर्शनी यः ।।४।। न यश्चाऽऽगामिनेऽर्थाय सन्निधत्तेऽशनादिकम् । साधर्मिकान्निमन्त्र्यैव भुक्त्वा स्वाध्यायकृच्च यः ।।५।। १. मुद्रितप्रती 'तथा सं...' इत्यशुद्धः पाठः । |||४७०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy