________________
नेति । आगामिनेऽर्थाय = श्वः परश्वो वा भाविने प्रयोजनाय । निमन्त्र्यैव इत्यनेन स्वात्मतुल्यसाधर्मिकवात्सल्यसिद्धिरुक्ता ।
भुक्त्वा स्वाध्यायकृच्च इत्यत्र 'च'शब्दाच्छेषाऽनुष्ठानपरत्वग्रहेण नित्याऽप्रमादित्वमुक्तम् ।।५।।
न कुप्यति कथायां यो नाऽप्युच्चैः कलहायते ।
उचितेऽनादरो यस्य नाऽऽदरोऽनुचितेऽपि च ।।६।। न कुप्यतीति । व्यक्तः ।।६।।
'आक्रोशादीन्महात्मा यः सहते ग्रामकण्टकान् ।
न बिभेति भयेभ्यश्च स्मशाने प्रतिमास्थितः ।।७।। आक्रोशादीनिति । आक्रोशादीन् = आक्रोश-प्रहार-तर्जनान् ग्रामकण्टकान् ग्रामाणामिन्द्रियाणां कण्टकवदुःखहेतुत्वात् ।।७।।
आक्रुष्टो वा हतो वाऽपि लूषितो वा क्षमासमः ।
व्युत्सृष्टत्यक्तदेहो योऽनिदानश्चाऽकुतूहलः ।।८।। आक्रुष्टो वेति । आक्रुष्टो वा कुवचनैः, हतो वाऽपि दण्डादिभिः, लूषितो वा खड्गा
२७/८
।।४७१॥
१. हस्तादर्श 'नको...' इत्यशुद्धः पाठः । २. हस्तादर्श 'हते' इति पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org