________________
FF छळ
भावसात्म्येऽत एवाऽस्या भङ्गेऽपि व्यक्तमन्वयः ।
सुवर्णघटतुल्यां तां ब्रुवते सौगता अपि ।।२४।। भावेति । अत एवाऽस्याः क्रियाया भावसात्म्ये स्वजननशक्त्या भावव्याप्तिलक्षणे सति भङ्गेऽपि = तथाविधकषायोदयान्नाशेऽपि व्यक्तं = प्रकटं अन्वयो भावाऽनुवृत्तिलक्षणः, तद्व्यक्त्यभावेऽपि तच्छक्त्यनपगमात्। अत एव तां भावशुद्धां' क्रियां सौगता अपि सुवर्णघटतुल्यां ब्रुवते । यथा हि सुवर्णघटो भिद्यमानोऽपि न सुवर्णानुबन्धं मुञ्चति एवं शुभक्रिया तथाविधकषायोदयाद् भग्नाऽपि शुभफलैवेति । तदिदमुक्तं- “भाववृद्धिरतोऽवश्यं सानुबन्धं शुभोदयम् । गीयतेऽन्यैरपि ह्येतत्सुवर्णघटसन्निभम्।।” (यो.बि.३५१) इति ।।२४।।
शिरोदकसमो भावः क्रिया च खननोपमा ।
___भावपूर्वादनुष्ठानाद् भाववृद्धिरतो ध्रुवा ।।२५।।
___शिरेति । शिरोदकसमः = तथाविधकूपे सहजप्रवृत्त शिराजलतुल्यो भावः । क्रिया १०/२५ || च खननोपमा शिराऽऽश्रयकूपादिखननसदृशी । अतो भावपूर्वादनुष्ठानाद् भाववृद्धिर्बुवा,
१. हस्तादर्श 'शुद्ध' इत्यशुद्धः पाठः । अन्यस्मिन् हस्तादर्श च 'भावशुद्धिक्रियां' इति पाठः । हस्तादर्शविशेषे च 'भावशुद्धक्रियां' इति पाठान्तरम् । २. 'विद्यमानो' इति मुद्रितप्रतावशुद्धः पाठः । ३. मुद्रितप्रतौ 'स्वर्णा...' इति पाठान्तरम् । ४. हस्तादर्श 'प्रवृत्ति...' इत्यशुद्धः पाठः ।
के
॥।॥१८०
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org