________________
है कि
युक्तं तेनैतदधिकमुपरिष्टाद् भणिष्यते ।।२१।। पुरुषेति। तस्यामपि हि = जिज्ञासायामपि हि सत्यां कश्चित् पुरुषाऽभिभवः प्रकृतेः हीयते = निवर्तते। न ह्येकान्तेनाऽक्षीणपापस्य विमलो भावः सम्भवति । तेनैतद् गोपेन्द्रोक्तं युक्तम् । अधिकं = अपरिणाम्यात्मपक्षे तदभिभव-तन्निवृत्त्याद्यनुपपत्तिलक्षणं उपरिष्टाद् = अग्रिमद्वात्रिंशिकायां भणिष्यते ।।२१।।
भावस्य 'मुख्यहेतुत्वं तेन मोक्षे व्यवस्थितम् ।
तस्यैव चरमावर्ते क्रियाया अपि योगतः ॥२२॥ भावस्येति । तेन भावस्य = अन्तःपरिणामस्य मोक्षे मुख्यहेतुत्वं व्यवस्थितम् ।
तेन स एव योग इत्युक्तं भवति । तस्यैव योगतश्चरमावर्ते क्रियाया अपि मोक्षे मुख्यहेतुत्वं, अतस्तस्या अपि योगत्वमिति भावः ।।२२।।
रसाऽनुवेधात्ताम्रस्य हेमत्वं जायते यथा ।
क्रियाया अपि सम्यक्त्वं तथा भावाऽनुवेधतः ।।२३।। रसानुवेधादिति । ताम्रस्य रसाऽनुवेधात् = सिद्धरससम्पर्कात् यथा हेमत्वं जायते। तथा क्रियाया अपि भावानुवेधतः सम्यक्त्वं = मोक्षसम्पादनशक्तिरूपम् ।।२३।। १. मुद्रितप्रतौ 'प्रकृते' इति अशुद्धः पाठः । २. 'मोक्षहेतुत्वं' इति मुद्रितप्रतौ हस्तादर्श च पाठः । ३. मुद्रितप्रतौ 'भावः' पदं नास्ति ।
१०/२३
।।।१७९।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org