________________
ग
ल
क्ष
ण
द्वा
त्रिं
शि
का
१०/२०
Jain Education International
= तस्मात् चरमावर्त इष्यते योगपरिणामनिबन्धनम् । अत्रैव चरमावर्त एव विमलो भावो भवाऽभिष्वङ्गाऽभावाद् भवति । यद् गोपेन्द्रोऽपि अभ्यधाद् भङ्ग्यन्तरेण । । १८ ।। अनिवृत्ताऽधिकारायां प्रकृतौ सर्वथैव हि ।
न पुंसस्तत्त्वमार्गेऽस्मिञ्जिज्ञासाऽपि प्रवर्तते ।। १९ ।।
अनिवृत्तेति । अनिवृत्तः प्रतिलोमशक्त्याऽन्तरलीनोऽधिकारः पुरुषाऽभिभवनरूपो यस्यास्तस्यां *( = अनिवृत्ताधिकारायां) प्रकृतौ सर्वथैव हि = सर्वैरेव प्रकारैः, अपुनर्बन्धस्थानस्याप्यप्राप्तावित्यर्थः, न = नैव पुंसः तत्त्वमार्गेऽस्मिन् वक्तुमुपक्रान्ते जिज्ञासाऽपि पुनस्तदभ्यास इत्यपिशब्दार्थः, प्रवर्तते सञ्जायते ।। १९ ।। साधिकारप्रकृतिमत्यावर्ते हि नियोगतः ।
ज्ञातुमिच्छाऽपि, किं
पथ्येच्छेव न जिज्ञासा क्षेत्ररोगोदये भवेत् ॥ २० ॥
साधिकारेति । साधिकारा पुरुषाभिभवप्रवृत्ता या 'प्रकृतिस्तद्वति (=साधिकारप्रकृतिमति ) आवर्ते हि नियोगतो = निश्चयतः जिज्ञासा = तत्त्वमार्गपरिज्ञानेच्छा न भवेत्, क्षेत्ररोगोदय इव पथ्येच्छा । क्षेत्ररोगो नाम रोगान्तराऽऽधारभूतः कुष्ठादिरोगः । ततो यथा पथ्यापथ्यधीविपर्यासस्तथा प्रकृतेऽपि ।। २० ।।
पुरुषाऽभिभवः कश्चित्तस्यामपि हि हीयते ।
१. 'भिभप्र' इति मुद्रितप्रतावशुद्धः पाठः । २ हस्तादर्शादी 'प्रवृत्ति रित्यशुद्धः पाठः ।
=
For Private & Personal Use Only
=
=
।।१७८ ।
www.jainelibrary.org