________________
FF छ कि
योग्यत्वेऽपि तृणादीनां घृतत्वादेस्तदा यथा ॥१७॥ तस्मादिति । तस्मात् = प्रणिधानाद्यभावात् अचरमावर्तेषु योगवर्त्मनो = योगमार्गस्य अयोगः = असम्भवः, योग्यत्वेऽपि = योगस्वरूपयोग्यत्वेऽपि तृणादीनां तदा = तृणादिकाले यथा घृतत्वादे-रयोगः । तृणादिपरिणामकाले तृणादेघृतादि परिणामतथा स्वरूपयोग्यत्वेऽपि घृतादिपरिणाम-सहकारियोग्यताऽभावाद्यथा न घृतादिपरिणामस्तथा प्रकृतेऽपि भावनीयम् । ____ अत एव सहकारियोग्यताऽभाववति तत्र काले कार्याऽनुपधानं तद्योग्यताऽभाववत्त्वेनैव साधयितुमभिप्रेत्याह हरिभद्रसूरिः “तस्मादचरमावर्तेष्वध्यात्मं नैव युज्यते ।
कायस्थितितरोर्यद्वत्तज्जन्मस्वामरं सुखम् ।। (योगबिन्दु-९३) तैजसानां च जीवानां भव्यानामपि नो तदा । 'यथा चारित्रमित्येवं नान्यदा योगसम्भवः ।।" (योगबिन्दु-९४) इति ।।१७।। 'नवनीतादिकल्पस्तच्चरमावर्त इष्यते ।
अत्रैव विमलो भावो गोपेन्द्रोऽपि यदभ्यधात् ॥१८॥ नवनीतादीति । नवनीतादिकल्पो = घृतपरिणामनिबन्धननवनीतदधिदुग्धादितुल्यः तत्
१०/१८
।।।।१७७।।
१. 'तापिद' इत्यशुद्धः पाठः मुद्रितप्रतौ । २. मुद्रितप्रतो तथा' पदं नास्ति । ३. हस्तादर्श 'घृणा...' इत्यशुद्धः पाठः। ४. हस्तादर्श 'घृतादिपरिणाम' नास्ति । ५. हस्तादर्श 'योग्यता...' इति पाठः । ६. मुद्रितप्रतौ 'तथा' इति पाठः । ७. हस्तादर्श 'नवनीतानि' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org