________________
यो
ग
ल
क्ष
ण
द्वा
त्रिं
शि
का
१०/१६
Jain Education International
अन्यस्य योजनं धर्मे विनियोगस्तदुत्तरम् ।
कार्यमन्वयसम्पत्त्या तदवन्ध्यफलं मतम् ।। १५ ।।
अन्यस्येति । अन्यस्य स्वव्यतिरिक्तस्य योजनं धर्मे अहिंसादौ विनियोगः । तदुत्तरं सिद्ध्युत्तरं कार्यं तद् अन्वयसम्पत्त्या = अविच्छेदसिद्ध्या अवन्ध्यफलं = अव्यभिचारिफलं मतम्, स्वपरोपकारबुद्धिलक्षणस्याऽनेकजन्मान्तरसन्ततोद्बोधेन प्रकृष्टधर्मस्थानाऽवाप्तिहेतुत्वात् 118411
=
एतैराशययोगैस्तु विना धर्माय न क्रिया ।
प्रत्युत प्रत्यपायाय लोभ - क्रोधक्रिया यथा ।।१६ ॥
एतैरिति । एतैः प्रणिधानादिभिः आशययोगैस्तु विना धर्माय न क्रिया बाह्यकायव्यापाररूपा प्रत्युत अन्तर्मालिन्यसद्भावात् प्रत्यपायाय = इष्यमाणप्रतिपक्षविघ्नाय यथा लोभक्रोधक्रिया कूटतुलादि-सङ्ग्रामादिलक्षणा । तदुक्तं
" तत्त्वेन तु पुनर्नैकाऽप्यत्र धर्मक्रिया मता ।
तत्प्रवृत्त्यादिवैगुण्याल्लोभ-क्रोधक्रिया यथा ।। " ( योगबिन्दु ९२ ) ।। १६ ।। तस्मादचरमावर्तेष्वयोगो योगवर्त्मनः ।
१. मुद्रितप्रतौ 'प्रतिक्ष' इति अशुद्धः पाठः । २ हस्तादर्शादौ प्रकृत्या' इति पाठः, योगबिन्दी 'प्रवृत्त्या' इति पाठात्स एवाऽत्राऽऽदृतः ।
For Private & Personal Use Only
।।१७६ ।
www.jainelibrary.org