________________
ग
ल
क्ष
5 hos da
ण
द्वा
त्रिं
शि
का
१०/१४
Jain Education International
प्रवृत्तस्य निराकुलं गमनं सञ्जायते । एवं कण्टकविघ्नजयसमः प्रथमो विघ्नजयः ।
( २ ) तथा तस्यैव ज्वरवेदनाऽभिभूतशरीरस्य विह्वलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि तत्कर्तुमशक्नुवतः कण्टकविघ्नादभ्यधिको ज्वरविघ्नः । तज्जयस्तु निराकुलप्रवृत्तिहेतुः । एवं ज्वरविघ्नजयसमो द्वितीयो विघ्नजयः ।
( ३ ) तस्यैव चाऽध्वनि जिगमिषोर्दिङ्मोहकल्पो मोहविघ्नः तेनाऽभिभूतस्य प्रेर्यमाणस्याऽप्यध्वनीनैर्न गमनोत्साहः कथञ्चित्प्रादुर्भवति । तज्जयस्तु स्वरसतो मार्गगमनप्रवृत्तिहेतुः, एवमिह मोहविघ्नजयसमस्तृतीयो विघ्नजयः इति । फलैकोन्नेयाः खल्वेते ।।१३।। सिद्धिस्तात्त्विकधर्माप्तिः साक्षादनुभवात्मिका ।
कृपोपकारविनयान्विता हीनादिषु क्रमात् ।।१४।।
सिद्धिरिति । सिद्धि: तात्त्विकस्य अभ्यासशुद्धस्य न त्वाभ्यासिकमात्रस्य धर्मस्य अहिंसादेः आप्तिः उपलब्धिः (= तात्त्विकधर्माऽऽप्तिः) | साक्षाद् = अनुपचारेण अनुभवात्मिका = आत्मन आत्मना आत्मनि संवित्तिरूपा ज्ञान-दर्शन- चारित्रैकमूर्तिका । हीनादिषु क्रमात् कृपोपकारविनयाऽन्विता = हीने कृपान्विता, मध्यमे उपकारान्विता, अधिके च विनययुता || १४ ||
=
=
=
१. हस्तादर्शे 'समः प्रथमो विघ्नजयः' इति नास्ति । २. मुद्रितप्रतौ 'दप्यधिको' इति पाठः । ३. हस्तादर्शे 'दिङ्मोहविघ्नः तेना...' इति त्रुटितः पाठः । हस्तादर्शान्तरे च 'दिङ्मोल्पो' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'भवात्मका' इति पाठः । ५. मुद्रितप्रतौ 'आत्मनि' इति पाठो नास्ति । ६. 'विनययुक्ता' इति मुद्रितप्रतौ पाठान्तरम् ।
For Private & Personal Use Only
।। १७५।।
www.jainelibrary.org