SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ग ल क्ष 5 hos da ण द्वा त्रिं शि का १०/१४ Jain Education International प्रवृत्तस्य निराकुलं गमनं सञ्जायते । एवं कण्टकविघ्नजयसमः प्रथमो विघ्नजयः । ( २ ) तथा तस्यैव ज्वरवेदनाऽभिभूतशरीरस्य विह्वलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि तत्कर्तुमशक्नुवतः कण्टकविघ्नादभ्यधिको ज्वरविघ्नः । तज्जयस्तु निराकुलप्रवृत्तिहेतुः । एवं ज्वरविघ्नजयसमो द्वितीयो विघ्नजयः । ( ३ ) तस्यैव चाऽध्वनि जिगमिषोर्दिङ्मोहकल्पो मोहविघ्नः तेनाऽभिभूतस्य प्रेर्यमाणस्याऽप्यध्वनीनैर्न गमनोत्साहः कथञ्चित्प्रादुर्भवति । तज्जयस्तु स्वरसतो मार्गगमनप्रवृत्तिहेतुः, एवमिह मोहविघ्नजयसमस्तृतीयो विघ्नजयः इति । फलैकोन्नेयाः खल्वेते ।।१३।। सिद्धिस्तात्त्विकधर्माप्तिः साक्षादनुभवात्मिका । कृपोपकारविनयान्विता हीनादिषु क्रमात् ।।१४।। सिद्धिरिति । सिद्धि: तात्त्विकस्य अभ्यासशुद्धस्य न त्वाभ्यासिकमात्रस्य धर्मस्य अहिंसादेः आप्तिः उपलब्धिः (= तात्त्विकधर्माऽऽप्तिः) | साक्षाद् = अनुपचारेण अनुभवात्मिका = आत्मन आत्मना आत्मनि संवित्तिरूपा ज्ञान-दर्शन- चारित्रैकमूर्तिका । हीनादिषु क्रमात् कृपोपकारविनयाऽन्विता = हीने कृपान्विता, मध्यमे उपकारान्विता, अधिके च विनययुता || १४ || = = = १. हस्तादर्शे 'समः प्रथमो विघ्नजयः' इति नास्ति । २. मुद्रितप्रतौ 'दप्यधिको' इति पाठः । ३. हस्तादर्शे 'दिङ्मोहविघ्नः तेना...' इति त्रुटितः पाठः । हस्तादर्शान्तरे च 'दिङ्मोल्पो' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'भवात्मका' इति पाठः । ५. मुद्रितप्रतौ 'आत्मनि' इति पाठो नास्ति । ६. 'विनययुक्ता' इति मुद्रितप्रतौ पाठान्तरम् । For Private & Personal Use Only ।। १७५।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy