________________
।। (अधोवृत्तिकृपानुगम), न तु हीनगुणत्वेन तेषु द्वेषसमन्वितम् । परोपकारसारं च = परार्थनिष्पत्तिप्रधानं च चित्तं पापविवर्जितं = सावद्यपरिहारेण निरवद्यवस्तुविषयम् ।।११।।
प्रवृत्तिः प्रकृतस्थाने यत्नाऽतिशयसम्भवा ।
अन्याऽभिलाषरहिता चेतःपरिणतिः स्थिरा ।।१२।। प्रवृत्तिरिति । प्रवृत्तिः प्रकृतस्थाने = अधिकृतधर्मविषये यत्नाऽतिशयसम्भवा = पूर्वप्रयत्नाऽधिकोत्तरप्रयत्नजनिता अन्याऽभिलाषेण अधिकृतेतरकार्याऽभिलाषेण रहिता (=अन्याऽभिलाषरहिता) चेतसः = अन्तरात्मनः परिणतिः (=चेतःपरिणतिः) स्थिरा = एकाग्रा, स्वविषय एव यत्नाऽतिशयाज्जाता तत्रैव च तज्जननीत्यर्थः ।।१२।।
बाह्याऽन्तर्व्याधिमिथ्यात्वजयव्यङ्ग्याशयात्मकः ।
कण्टक-ज्वर-मोहानां जयैर्विघ्नजयः समः ।।१३।। बाह्येति । बाह्यव्याधयः शीतोष्णादयः, अन्तर्व्याधयश्च ज्वरादयः, मिथ्यात्वं = भग
वद्वचनाऽश्रद्धानम्, तेषां जयः = तत्कृतवैक्लव्यनिराकरणं तद्व्यङ्ग्याऽऽशयात्मकः (=बाह्यान्त१०/१३
र्व्याधिमिथ्यात्वजयव्यङ्ग्याशयात्मकः) कण्ट्रक-ज्वर-मोहानां जयैः समो विघ्नजयः । इत्थं च हीनमध्यमोत्कृष्टत्वेनाऽस्य त्रिविधत्वं प्रागुक्तं व्यक्तीकृतम् । यथाहि- (१) कस्यचित्पुंसः कण्टकाऽऽकीर्णमार्गाऽवतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुः । तद्रहिते तु पथि १. हस्तादर्श 'प्रकृतिश्चायं' इत्यशुद्धः पाठः । २. हस्तादर्श 'बाह्यया...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'तथाहि' इति पाठः ।
||१७४।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org