SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ' छिर अनाभोगवत इति । अनाभोगवतः = सम्मूर्छनजप्रायस्य स्वभावत एव वैनयिकप्रकृतेः साऽपि = लोकपङ्क्त्या धर्मक्रियाऽपि धर्माऽहानिकृतो = धर्मे महत्त्वस्यैव यथास्थितस्याऽज्ञानाद् भवोत्कटेच्छाया अभावेन महत्यल्पत्वाऽप्रतिपत्तेर्धर्महान्यकारिणो वरं = अन्याऽपेक्षया मनाक् सुन्दरा | तत्त्वेन = तत्त्वतः पुनः नैकापि प्रणिधानाद्यभावतो नैकापि (शुभा) वरं, प्रणिधानादीनां क्रियाशुद्धिहेतुत्वात् ।।९।। तानेवाह प्रणिधानं प्रवृत्तिश्च तथा विघ्नजयस्त्रिधा । सिद्धिश्च विनियोगश्च एते' कर्मशुभाऽऽशयाः ।।१०।। प्रणिधानमिति । कर्मणि = क्रियायां शुभाशयाः = स्वपुष्टि-शुद्ध्यनुबन्धहेतवः शुभपरिणामाः (=कर्मशुभाशयाः)। पुष्टिरुपचयः, शुद्धिश्च ज्ञानादिगुणविघातिघातिकर्मह्रासोत्थनिर्मलतेत्यवधेयम् ।।१०।। प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपाऽनुगम् । परोपकारसारं च चित्तं पापविवर्जितम् ।।११।। प्रणिधानमिति । प्रणिधानं क्रियानिष्ठं अधिकृतधर्मस्थानादविचलितस्वभावम् । अधो- (१७३ । वृत्तिषु = स्वप्रतिपन्नधर्मस्थानादधस्ताद्वर्तमानेषु प्राणिषु कृपाऽनुगं = करुणाऽन्वितं १. हस्तादर्श 'नंत' इत्यशुद्धः पाठः । अन्यहस्तप्रतौ च 'पंथ' इत्यशुद्धः पाठः । १०/११ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy