________________
,
외
=
जीवस्य लोकपङ्क्त्या धर्मक्रिया मता । नाऽत्र केवलमफलत्वमेव किं तु विपरीतफलत्वमिति भावः ।।७।।
धर्मार्थं सा शुभायाऽपि धर्मस्तु न तदर्थिनः ।।
क्लेशोऽपीष्टो धनार्थं हि क्लेशार्थं जातु नो धनम् ।।८।। धर्मार्थमिति । धर्मार्थं = सम्यग्दर्शनादिमोक्षबीजाऽऽधाननिमित्तं सा = लोकपङ्क्तिः दान-सन्मानोचितसम्भाषणादिभिश्चित्रैरुपायैः शुभाय = कुशलाऽनुबन्धाय अपि । धर्मस्तु तदर्थिनो = लोकपत्यर्थिनो न शुभाय, हि = यतो धनार्थं क्लेशोऽपीष्टो धनार्थिनां राजसेवादी प्रवृत्तिदर्शनात् । क्लेशार्थं जातु = कदाचित् धनं न इष्टम् । न हि "धनान्मे क्लेशो भवतु” इति कोऽपीच्छति प्रेक्षावान् । तदिदमुक्तं “धर्मार्थं लोकपङ्क्तिः स्यात् कल्याणाङ्गं महामतेः । तदर्थं तु पुनर्धर्मः पापायाल्पधियामलम् ।।" (योगबिन्दु-९०) तथा “युक्तं' जनप्रियत्वं शुद्धं सद्धर्मसिद्धिफलदमलं ।
'सद्धर्मप्रशंसनादेर्बीजाधानादिभावेन ।।" (षोडशक-४/७) इति ।।८।।
अनाभोगवतः साऽपि धर्माऽहानिकृतो वरम् ।
शुभा तत्त्वेन नैकाऽपि प्रणिधानाद्यभावतः ॥९॥ १. हस्तादर्श ‘युक्तं' पदं नास्ति । किन्तु षोडशकानुसारेणापेक्षितत्वादस्माभिरिह तदुपात्तम् । २. हस्तादर्श 'धर्म...' इत्यादिः पाठः । षोडशकानुसारेणाऽपेक्षितः पाठोऽत्राऽस्माभिः योजितः ।
파
이의
||१७२।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org