________________
5
F
F
क्षुद्र इति । क्षुद्रः = कृपणः । लोभरतिः = याञ्चाशीलः । दीनः = सदैवाऽदृष्टकल्याणः। ॥ मत्सरी = परकल्याणदुःस्थितः । भयवान् = नित्यभीतः । शठो = मायावी । अज्ञो = मूर्खः। भवाभिनन्दी = “असारोऽप्येष संसारः सारवानिव लक्ष्यते । दधि-दुग्धाऽम्बुताम्बूल-पण्य-पण्याङ्गनादिभिः ।।" ( ) इत्यादिवचनैः संसाराऽभिनन्दनशीलः स्याद् = भवेत्, निष्फलाऽऽरम्भसङ्गतः सर्वत्राऽतत्त्वाऽभिनिवेशाद्वन्ध्यक्रियासम्पन्नः ।।५।।
लोकाऽऽराधनहेतोर्या मलिनेनान्तरात्मना ।
'क्रियते सक्रिया सा च लोकपङ्क्तिरुदाहृता ॥६॥ लोकेति । लोकाऽऽराधनहेतोः = लोकचित्ताऽऽवर्जननिमित्तं या मलिनेन = कीर्तिस्पहादिमालिन्यवता अन्तरात्मना चित्तरूपेण क्रियते सत्क्रिया शिष्टसमाचाररूपा सा च योगनिरूपणायां लोक-पङ्क्तिरुदाहृता योगशास्त्रज्ञैः ।।६।।
महत्यल्पत्वबोधेन विपरीतफलाऽऽवहा ।
भवाभिनन्दिनो लोकपङ्क्त्या धर्मक्रिया मता ।।७।। महतीति । महति अधरीकृतकल्पद्रु-चिन्तामणि-कामधेनौ धर्मे अल्पत्वबोधेन अतितुच्छकीर्त्यादिमात्रहेतुत्वज्ञानेन विपरीतफलाऽऽवहा = दुरन्तसंसाराऽनुबन्धिनी भवाभिनन्दिनो १. हस्तादर्श '...व' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'लक्ष्यन्ते' इत्यशुद्धः पाठः । ३. हस्तादर्श 'पुण्य-पण्या...' इति पाठः । ४. 'वोयते' इत्यशुद्धः पाठो हस्तादर्श । ५. मुद्रितप्रतौ 'क्रियने' इत्यशुद्धः पाठः ।
.
१७१।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org