SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ कहरु 5 ho ja ण द्वा त्रिं शि का १०/५ Jain Education International = फलजननं प्रत्यविलम्बात् च दर्शितं प्रवचने, यतो यस्मात् चरमे पुद्गलाऽऽवर्ते एतस्य योगस्य सम्भवः । इत्थं ह्यभव्य-दूरभव्यक्रियाव्यवच्छेदः कृतो भवति, एकस्या मोक्षाऽनुपादानत्वादन्यस्याश्च फलविलम्बादिति ध्येयम् ।।२।। न सन्मार्गाऽऽभिमुख्यं स्यादावर्तेषु परेषु तु 1 मिथ्यात्वच्छन्नबुद्धीनां दिङ्मूढानामिवाऽङ्गिनाम् ॥३॥ नेति । स्पष्टः ||३॥ तदा भवाभिनन्दी स्यात्सञ्ज्ञाविष्कम्भणं विना । धर्मकृत् कश्चिदेवाङ्गी लोकपङ्क्तौ कृताऽऽदरः ।।४।। तदेति । तदा = अचरमेष्वावर्तेषु अङ्गी = प्राणी ( भवाभिनन्दी स्यात् । अत एव तदा) सञ्ज्ञाविष्कम्भणं = आहारादिसञ्ज्ञोदयवचनलक्षणं विना कश्चिदेव धर्मकृत् लौकिक- लोकोत्तर प्रव्रज्यादिधर्मकारी | लोकपङ्क्तौ = लोकसदृशभावसम्पादनरूपायां कृताऽऽरः = कृतयत्नः स्यात् ।।४।। क्षुद्रो लोभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ॥ ५ ॥ १. मुद्रितप्रतौ '...बत्वात्' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ 'एकस्य' इत्यशुद्धः पाठः । मुद्रितप्रत्यन्तरे 'एक' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ '... दन्यस्य च' इत्यशुद्धः पाठः । ४. 'पंक्ति' इति मुद्रितप्रतौ । = For Private & Personal Use Only ।।१७० । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy