________________
स्वसामर्थ्याऽनुसारेण परमानन्दमश्नुते ।।३२।। सन्धुक्षयन्तीत्याद्यारभ्याष्टश्लोकी प्रायः सुगमा विधिसूत्रादिविवेकश्चान्यत्र प्रपञ्चित इति ||३२।।
।। इति कथाद्वात्रिंशिका ।।९।।
FE
।। अथ योगलक्षणद्वात्रिंशिका ।।१०।। कथानिरूपणाऽनन्तरं तत्फलभूतस्य योगस्य लक्षणं निरूप्यते -
मोक्षेण योजनादेव योगो ह्यत्र निरुच्यते ।
लक्षणं तेन तन्मुख्यहेतुव्यापारताऽस्य तु ।।१।। ___ मोक्षेणेति । योगो हि = योगशब्दो हि अत्र = लोके प्रवचने वा मोक्षेण योजनादेव निरुच्यते = व्युत्पाद्यते । तेन अस्य = योगस्य तु तन्मुख्यहेतुव्यापारता लक्षणं निरुक्ताऽर्थस्याऽप्यनतिप्रसक्तस्य लक्षणत्वाऽनपायात् ।।१।।
मुख्यत्वं चान्तरङ्गत्वात् फलाऽऽक्षेपाच्च दर्शितम् ।
चरमे पुद्गलावर्ते यत' एतस्य सम्भवः ।।२।। मुख्यत्वं चेति । मुख्यत्वं च अन्तरङ्गत्वात् = मोक्षं प्रत्युपादानत्वात् फलाऽऽक्षेपात् १. हस्तादर्श 'तय' इत्यशुद्धः पाठः ।
का
१०/२
।।१६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org