SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ तपोनियमसारा तु कथनीया विपश्चिता । संवेगं वापि निर्वेदं यां श्रुत्वा मनुजो व्रजेत् ।।२६।। महार्थापि कथाऽकथ्या परिक्लेशेन धीमता । अर्थं हन्ति प्रपञ्चो हि पीठक्ष्मामिव पादपः ॥२७ ।। प्रपञ्चितज्ञशिष्यस्याऽनुरोधे सोऽप्यदोषकृत् । सूत्राऽर्थादिक्रमेणाऽतोऽनुयोगस्त्रिविधः स्मृतः ।।२८।। 'विध्युद्यमभयोत्सर्गाऽपवादोभयवर्णकैः । कथयन्न पटुः सूत्रमपरिच्छिद्य केवलम् ।।२९।। एवं ह्येकान्तबुद्धिः स्यात्सा च सम्यक्त्वघातिनी । विभज्यवादिनो युक्ता कथायामधिकारिता ॥३०॥ विधिना कथयन् धर्मं हीनोऽपि श्रुतदीपनात् । वरं न तु क्रियास्थोऽपि मूढो धर्माऽध्वतस्करः ॥३१॥ इत्थं 'व्युत्पत्तिमान्याय्यां कथयन पण्डितः कथाम् । १. मुद्रितप्रतौ 'संवेदं' इत्यशुद्धः पाठः । २. हस्तादर्श 'विध्युद्यमोभय...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'व्युत्पत्तिमात्रायां' इत्यशुद्धः पाठः । ||१६८। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy