________________
जगज्जीवहितं सेयं कथा धीरैरुदाहृता ।।२३।। ज्ञानेति । ज्ञान-क्रिया-तपोभियुक्ताः (=ज्ञान-क्रिया-तपोयुक्ताः) सद्भावं = परमार्थं यत् कथयन्ति जगज्जीवहितं सेयं धीरैः कथोदाहृता, निर्जराऽऽख्यफलसाधनात्, वक्तुः श्रोतुश्च कुशलपरिणामोत्पा-दनात्, अन्यथा तु तत्र भजनाऽपि स्यादिति । तदिदमुक्तं"तवसंजमगुणधारी जं चरणरया 'कहंति सब्भावं । सव्वजगज्जीवहिअंसा उ कहा देसिआ समये ।।" (दशवैकालिक नियुक्ति-३/२१०)।।२३।।
यः संयतः प्रमत्तस्तु ब्रूते सा विकथा मता ।
कर्तृश्रोत्राशये तु स्याद् भजना भेदमञ्चति ।।२४।। य इति । यः संयतः प्रमत्तः कषायादिवशगः तु ब्रूते सा विकथा मता, तथाविधपरिणामनिबन्धनत्वात् । तदुक्तं- “जो संजओ पमत्तो रागद्दोसवसगो परिकहेइ । सा उ विकहा पवयणे पन्नत्ता धीरपुरिसेहिं ।।” (दशवैकालिक नियुक्ति-३/२११) । कर्तृश्रोत्राशये तु भेदमञ्चति सति भजना स्यात्, तं प्रति कथान्तराऽऽपत्तेः ।।२४।।
"सन्धुक्षयन्ती मदनं शृङ्गारोक्तैरुदर्चिषम् ।
कथनीया कथा नैव साधुना 'सिद्धिमिच्छता ।।२५।। १. हस्तादर्श 'कहिंति' इति पाठः । २. 'देसिआ धम्मे' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. हस्तादर्श ‘य ति' इत्यशुद्धः पाठः । ४. 'सन्धुक्षयन्ति' इत्येवमशुद्धः पाठो मुद्रितादर्श । ५. हस्ताद” 'सिद्धमि..' इत्यशुद्धः पाठः। ६. इत आरभ्य अष्टश्लोकी हस्तादर्श नास्ति ।
९/२५
।।१६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org