________________
ts 15 ho to f
क
था
द्वा
त्रिं
शि
का
९/२२
Jain Education International
प्रज्ञापकमिति । प्रज्ञापकं वक्तृपुरुषविशेषं समाश्रित्य एता उक्तलक्षणाः कथा अपि (क्रमात्) 'अकथा विकथाः कथा वा स्युः, भावभेदतः = आशयवैचित्र्यात् सम्यक्श्रुतादिवत् । तत एव पुरुषार्थप्रतिपत्त्यभाव-तद्विरोध- तत्प्रतिपत्तिफलभेदात् । तदुक्तं- " एया चेव कहाओ पन्नवगपरूवगं समासज्ज ।
अकहा कहा य विकहा हविज्ज पुरिसंतरं पप्प || ” ( दशवैकालिक निर्युक्ति- ३ / २०८ ) अत्र प्रज्ञापकप्ररूपकमित्यत्र कर्मधारयाऽऽश्रयणादवबोधकप्ररूपको व्याख्यातो घरट्टभ्रमणकल्पश्च व्यवच्छिन्नः । द्वन्द्वाऽऽश्रयणे तु द्वित्वे बहुवचनाऽऽपत्तिरित्यवधेयम् ।। २१ ।। मिथ्यात्वं वेदयन् ब्रूते लिङ्गस्थो वा गृहस्थितः । यत्साऽकथाशयोद्भूतेः श्रोतुर्वक्त्रनुसारतः ।।२२।।
मिथ्यात्वमिति । मिथ्यात्वं वेदयन् = विपाकेनाऽनुभवन् लिङ्गस्थो द्रव्यप्रव्रजितः अङ्गारमर्दकादिप्रायो, गृहस्थितो वा कश्चिद् यद् ब्रूते साsकथा । श्रोतुर्वक्त्रनुसारतो वक्त्राशयाऽऽनुगुण्येनैव आशयोद्भूतेः = भावोत्पत्तेः प्रतिविशिष्टफलाऽभावात् । तदिदमुक्तं"मिच्छत्तं वेयंतो जं अन्नाणी कहं परिकहेइ ।
लिंगत्थो व गिही वा सा अकहा देसिआ समए ।। " ( दशवैकालिक नियुक्ति-३/२०९) । ।२२।। ज्ञानक्रियातपोयुक्ताः सद्भावं " कथयन्ति यत् ।
१. हस्तादर्शे 'अथा' इत्यशुद्धः पाठः । २. हस्तादर्शे 'कहाउ' इति पाठः । ३. हस्तादर्शे 'धर्मधार....' इत्यशुद्धः पाठ: । ४. हस्तादर्शे 'भावादिद....' इति त्रुटितः पाठः । ५. 'थयंति' इत्यशुद्धः पाठो हस्तादर्शे ।
For Private & Personal Use Only
।।१६६ ।
www.jainelibrary.org