________________
विक्षेपण्याः परिकर्मिताया एव गुणाऽऽवहत्वं नान्यथेति समर्थयन्नाह
आद्या यथा शुभं भावं सूते नाऽन्या कथा तथा ।
यादृग्गुणः स्यात्पीयूषात्तादृशो न विषादपि ।।१९।। आद्येति । पीयूषवन्नेयं स्वरूपतो गुणाऽऽवहा, किं तु वच्छनागवत्परिकर्मितैवेति तात्पर्यम् ।।१९।।
धर्मार्थकामाः कथ्यन्ते सूत्रे काव्ये च यत्र सा ।
मिश्राख्या विकथा तु स्याद् भक्त-स्त्री'-देश-रा'ड्गता ।।२०।। ___धर्मेति । यत्र सूत्रे काव्ये च धर्माऽर्थ-कामा मिलिताः कथ्यन्ते सा मिश्राख्या कथा, सङ्कीर्णपुरुषार्थाऽभिधानात् ।
विकथा कथालक्षणविरहिता तु स्यात् भक्त-स्त्री-देश-राड्गता भक्तादिविषया । यदाह"इत्थिकहा भत्तकहा रायकहा चोरजणवयकहा य । नड-नट्ट-जल्ल-मुट्टिय कहा उ एसा भवे विकहा ।।” (दशवैकालिक नियुक्ति-३/२०५)।।२०।।
प्रज्ञापकं समाश्रित्य कथा एता अपि क्रमात् ।
अकथा विकथा वा स्युः कथा वा भावभेदतः ।।२१।। १. हस्तादर्श 'राड्देशे कथा' इति पाठः । २. 'राङ्गता' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. मुद्रितप्रती 'राङ्गता...' इत्यशुद्धः पाठः । ४. 'मुट्टिया...' इति हस्तादर्श पाठः ।
||१६५
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org