________________
स्तोकस्याऽपीति । स्पष्टः ।।१६।।
आदावाक्षेपणीं दद्याच्छिष्यस्य धनसन्निभाम् ।
विक्षेपणी गृहीतेऽर्थे वृद्ध्युपायमिवादिशेत् ।।१७।। आदाविति । स्पष्टः ।।१७।।
आक्षेपण्या किलाऽऽक्षिप्ता जीवाः सम्यक्त्वभागिनः ।
विक्षेपण्यास्तु भजना मिथ्यात्वं वाऽतिदारुणम् ॥१८॥ आक्षेपण्येति । आक्षेपण्याक्षिप्ता आवर्जिताः किल जीवाः सम्यक्त्वभागिनो 'नियोगेन सम्यक्त्वलाभवन्तोऽसति प्रतिबन्धे, तथाऽऽवर्जनेन मिथ्यात्वमोहनीयकर्मक्षयोपशमोपपत्तेः ।
विक्षेपण्यास्तु सकाशात् फलप्राप्तौ भजना कदाचित्ततः सम्यक्त्वं लभन्ते कदाचिन्नेति, तच्छ्रवणात्तथाविधपरिणामाऽनियमात् ।
अतिदारुणं = महाभयङ्करं मिथ्यात्वं वा ततः स्यात् जडमतीनामभिनिविष्टानाम् । तदुक्तं__“अक्खेवणिअक्खित्ता जे जीवा ते लहन्ति सम्मत्तम ।
विक्खेवणीइ भज्जं गाढयरागं व मिच्छत्तं ।।" (दशवैकालिक नियुक्ति ३/२०५)।।१८।। १. हस्तादर्श'...यमुपादिशेत्' इति पाठः । स चाऽशुद्धः । २. मुद्रितप्रतौ 'योगेन' इत्यशुद्धः पाठः । ३. हस्तादर्श 'अभिनिविष्टानां' नास्ति । ४. मुद्रितप्रतौ '...वणिव...' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ 'च' इत्यशुद्धः पाठः ।
१६४
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org