SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 'F छ // जलवृद्धौ कूपखननस्येव भाववृद्धौ क्रियाया हेतुत्वात् । भावस्य दलत्वेऽपि बहुदलमेलनरूपाया । || वृद्धेस्तदन्वयव्यतिरेकाऽनुविधानात् ।।२५।। मण्डूकचूर्णसदृशः क्लेशध्वंसः क्रियाकृतः । तद्भस्मसदृशस्तु स्याद् भावपूर्वक्रियाकृतः ।।२६।। मण्डूकेति । क्रियाकृतः = केवलक्रियाजनितः क्लेशध्वंसो = रागादिपरिक्षयः मण्डूकचूर्णसदृशः, पुनरुत्पत्तिशक्त्यन्वितत्वात् । भावपूर्वक्रियाकृतस्तु तद्भस्मसदृशः = मण्डूकभस्मसदृशः स्यात्, पुनरुत्पत्तिशक्त्यभावात् । एवं च क्लेशध्वंसविशेषजनकः शक्तिविशेष एव क्रियायां भाववृद्ध्यनुकूल इति फलितम् ।।२६।। तथा च विचित्रभावद्वारा तत् क्रिया हेतुः शिवं प्रति । अस्या व्यञ्जकताप्येषा परा ज्ञाननयोचिता ।।२७।। विचित्रेति । (तत् = तस्मात्) विचित्रो भावोऽध्यात्मादिरूपः, तद्द्वारा (=विचित्र भावद्वारा) क्रिया शिवं प्रति हेतुः, दण्ड इव चक्रभ्रमिद्वारा घटे । 'कारणता च तस्याः १०/२७|| शक्तिविशेषेण न तु भावपूर्वकत्वेनैव, भावस्याऽन्यथासिद्धिप्रसङ्गात् । ___ अस्याः क्रियाया व्यञ्जकताप्येषा हेतुताविशेषरूपा परा । 'सत एव भावस्य ज्ञापकत्व१. हस्तादर्श ...चूर्णेन...' इति पाठान्तरम् । २. हस्तादर्श '...शक्यभावात्' इति त्रुटितः पाठः । ३. हस्तादर्श 'करण...' इति पाठः । ४. मुद्रितप्रती 'अत' इत्यशुद्धः पाठः । ॥१८१ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy