SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ FFE 5 ।। रूपाऽभिव्यञ्जकता' ज्ञाननयोचिता = ज्ञाननयप्राधान्योपयुक्ता, न तु व्यवहारतो वास्तवी, | अन्यथा सत्कार्यवादप्रसङ्गात् इति भावः ।।२७।। व्यापारश्चिद्विवर्तत्वाद्वीर्योल्लासाच्च स स्मृतः । विविच्यमाना भिद्यन्ते परिणामा हि वस्तुनः ।।२८।। व्यापार इति । स योगः चिद्विवर्तत्वात् = ज्ञानपरिणामात् वीर्योल्लासाद् = आत्मशक्तिस्फोरणात च व्यापारः स्मृतः, क्रमवतः प्रवृत्तिविषयस्य व्यापारत्वात । एतेन द्रव्यादेर्व्यवच्छेदः । हि = यतः विविच्यमानाः = भेदनयेन गृह्यमाणा वस्तुनः परिणामा भिद्यन्ते । तथा च न व्यापाराऽऽश्रयस्याऽपि व्यापारत्वमिति भावः ।।२८।। एतदेवाह जीवस्थानानि सर्वाणि गुणस्थानानि मार्गणाः । परिणामा विवर्तन्ते जीवस्तु न कदाचन ॥२९ ।। ___जीवस्थानानीति । सर्वाणि = चतुर्दशाऽपि जीवस्थानानि, 'गुणस्थानानि तावन्त्येव, १०/२९ मार्गणाः = गतीन्द्रियाद्याः परिणामा विवर्तन्ते = दशाविशेष भजन्ते । ___ जीवस्तु कदाचन न विवर्तते, तस्य शुद्धज्ञायकभावस्यैकस्वभावत्वात् ।।२९।। १. हस्तादर्श ...कवा' इत्यशुद्धः पाठः । २. हस्तादर्श 'माण्या' इत्यशुद्धः पाठः । ३. हस्तादर्श 'गुणस्थानानि' पदं नास्ति । के १८२। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy