SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उपाधिः कर्मणैव स्यादाचारादौ श्रुतं ह्यदः। विभावाऽनित्यभावेऽपि ततो 'नित्यः स्वभाववान् ।।३०।। उपाधिरिति । आचारादौ हि' अदः श्रुतं-यदुत उपाधिः कर्मणैव स्यात् “कम्मुणा उवाही जायइ ति" (आचा.१/३/१/सू.११०) वचनात्। ___ ततो विभावानां = मिथ्यात्वगुणस्थानादारभ्याऽयोगिगुणस्थानं यावत् प्रवर्तमानानामौपाधिकभावानां अनित्यभावेऽपि (=विभावाऽनित्यभावेऽपि) स्वभाववान् = आत्मा नित्यः, तस्योपाध्यजनितत्वात्। _ "उपाधिनिमित्तका अप्यात्मनो भावास्तद्रूपा' एव युज्यन्ते” इति चेत् ? सत्यम्, शुद्धनयदृष्ट्याऽऽत्म-पुद्गलयोः स्वस्वशुद्धभावजननचरितार्थत्वे 'संयोगजभावस्य भित्तौ खटिकाश्चेतिम्न इव विविच्यमानस्यैकत्राप्यनन्त भवन मिथ्यात्वात् ।।३०।। द्रव्यादेः स्यादभेदेऽपि शुद्धभेदनयादिना । इत्थं व्युत्पादनं युक्तं नयसारा हि देशना ॥३१॥ ___ द्रव्यादेरिति। द्रव्यादेः परिणामेभ्यः स्यात् = कथञ्चिद् अभेदेऽपि शुद्धः सः केवलो १. 'नित्यस्व...' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तादर्श 'भाववत्' इति अशुद्धः पाठः । ३. मुद्रितप्रतौ 'हि' पदं नास्ति । ४. हस्ताद” 'जायति' इति पाठः । ५. मुद्रितप्रतौ 'द्रुपा' इत्यशुद्धः पाठः । ६. हस्तादर्श 'संयोगस्य भा...' इत्यशुद्धः पाठः । ७. ...नन्तभावेन' इत्यशुद्धः पाठो मुद्रितप्रतौ । ८. मुद्रितप्रतौ 'स' इति पदं नास्ति । हस्तादर्शान्तरे च 'से' इत्यशुद्धः पाठः । १०/३१ ॥१८३।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy