SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 외의 । यो भेदनयस्तदादिना (=शुद्धभेदनयादिना) । इत्थं = उक्तरीत्या व्युत्पादनं युक्तम् । नयसारा = नयप्रधाना हि देशना शास्त्रे प्रवर्तते । अन्यथा तु 'योगपरिणत आत्माऽपि योग इतीष्यत एव, चरणाऽऽत्मनोऽपि भगवत्यां प्रतिपादनादिति भावः ।।३१।। योगलक्षणमित्येवं जानानो जिनशासने । परोक्तानि परीक्षेत परमानन्दबद्धधीः२ ।।३२॥ योगलक्षणमिति । स्पष्टः ।।३२।। ।। इति योगलक्षणद्वात्रिंशिका ।।१०।। 괴 ॥ अथ पातञ्जलयोगलक्षणद्वात्रिंशिका ।।११।। स्वकीयं योगलक्षणमन्यदीययोगलक्षणे विचारिते सति स्थिरीभवतीति तदर्थमय मारम्भः चित्तवृत्तिनिरोधं तु योगमाह पतञ्जलिः । द्रष्टुः स्वरूपावस्थानं यत्र स्यादविकारिणि ।।१।। चित्तेति । पतञ्जलिस्त चित्तवृत्तिनिरोधं योगमाह । तथा च सूत्रं -"योगश्चित्तवृत्तिनिरोध 적 파 ॥१८४। का ११/१ पागाश्चत्तवृत्तिनिरोध १. मुद्रितप्रतौ 'अन्यथाऽनुयोग...' इत्यशुद्धः पाठः । २. हस्तादर्श 'बुद्धधीः' इत्यशुद्धः पाठः । ३. हस्तादर्श'...न्यचीय...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'यस्मात्' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy