SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (योगसूत्र १-२)” इति । तत्र चित्तपदार्थं व्याचष्टे- द्रष्टुः पुरुषस्य स्वरूपे = चिन्मात्ररूपतायां अवस्थानं (=स्वरूपावस्थानं) यत्र = यस्मिन् स्यात् अविकारिणि = व्युत्पन्नविवेकख्यातेश्चित्सङ्कमाभावात् कर्तृत्वाभिमाननिवृत्तौ 'प्रोन्मुक्तपरिणामे । तथा च सूत्रं- “तदा द्रष्टुः स्वरूपा(पेऽ)वस्थानमिति” (योगसूत्र १-३) ।।१।। आपन्ने विषयाकारं यत्र चेन्द्रियवृत्तितः । पुमान् भाति तथा चन्द्रश्चलन्नीरे चलन् यथा ॥२॥ ___ 'आपन्न' इति । यत्र चेन्द्रियवृत्तितः = इन्द्रियवृत्तिद्वारा विषयाकारमापन्ने = विषयाकारपरिणते सति पुमान् = पुरुषः तथा भाति यथा चलन्नीरे चलन चन्द्रः स्वगतधर्माऽध्यारोपाऽधिष्ठानत्वेन प्रतीयत इत्यर्थः । तथा च सूत्रं- "वृत्तिसारूप्यमितरत्रेति" (योगसूत्र १-४) ।।२।। तच्चित्तं वृत्तयस्तस्य पञ्चतय्यः प्रकीर्तिताः । मानं भ्रमो विकल्पश्च निद्रा च स्मृतिरेव च ।।३।। 'तदिति । तच्चित्तम् । तस्य वृत्तिसमुदायलक्षणस्य अवयविनोऽवयवभूताः पञ्चतय्यो वृत्तयः प्रकीर्तिताः। तदुक्तं- “वृत्तयः पञ्चतय्यः 'क्लिष्टाक्लिष्टाः" (योगसूत्र १-५ साङ्ख्य- १. मुद्रितप्रतौ 'प्रोन्मुक्तपरिणामेन' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'द्वरा' इत्यशुद्धः पाठः । ३. हस्तादर्श ...तय्यः क्लिष्टाः' इति त्रुटितः पाठः । हस्तादर्शविशेषे च 'क्लिष्टाक्लिष्टाः' पदं नास्ति । १८५। ११/३ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy