SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ । सूत्र २।३३)। क्लिष्टाः = क्लेशाऽऽक्रान्ता तद्विपरीता अपि तावत्य एव । ता एवोद्दिशति मानं = प्रमाणं, भ्रमो, विकल्पः (च), निद्रा च स्मृतिरेव च । तदाह- "प्रमाण'विपर्यय-विकल्प-निद्रा-स्मृतयः” (योगसूत्र १-६) ।।३।। आसां क्रमेण लक्षणमाह - मानं ज्ञानं यथार्थं स्यादतस्मिंस्तन्मतिभ्रमः । पुंसश्चैतन्यमित्यादौ विकल्पोऽवस्तुशाब्दधीः ॥४॥ ___ मानमिति । मानं यथार्थं = तद्वति तदवगाहि ज्ञानं स्यात् । तदाह- "अविसंवादि ज्ञानं प्रमाणमिति" (राजमार्तण्ड १/७) । भ्रमोऽतस्मिन = तदभाववति तन्मतिः. यदाह"विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठं (योगसूत्र १-८)"। संशयोऽपि 'स्थाणुर्वा पुरुषो वे'त्यतद्रूपप्रतिष्ठत्वादत्रैवान्तर्भवति। पुंसश्चैतन्यमित्यादौ [अवस्तुशाब्दधीः =] अवस्तुविषया शाब्दधीः = विकल्पः। अत्र हि 'देवदत्तस्य कम्बल' इतिवच्छब्दजनिते ज्ञाने षष्ठ्यर्थो' भेदोऽध्यवसीयते, तमिहाविद्यमानमपि समारोप्य प्रवर्ततेऽध्यवसाय: । वस्तुतस्तु चैतन्यमेव पुरुष इति । तदाह- "शब्दज्ञानाऽनुपाती' वस्तुशून्यो विकल्पः (योगसूत्र १-९)” इति । भ्रमविशेष एवायमस्त्विति चेत् ? न, तथाविधशब्दजन्यजनकभावेनाऽस्य विलक्षणत्वात्, विषयाऽभावज्ञानेऽपि प्रवृत्तेश्च । यद् भोजः-“वस्तुनस्तथात्वमनपेक्षमाणो योऽध्यवसायः स ११/४ ॥ १. मुद्रितप्रतौ 'प्रामाण...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'निद्राः स्मृ...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'हि' नास्ति । ४. हस्तादर्श 'षष्ठ्या' इति पाठः । ५. हस्तादर्श '...पाप्ती' इत्यशुद्धः पाठः । F EFFEF ॥१८६। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy