________________
4
4
43 44
11 विकल्प इत्युच्यते” (योगसूत्र १/९ राजमार्तण्ड) इति ।।४।।
निद्रा च वासनाऽभावप्रत्ययाऽऽलम्बना स्मृता ।
सुखादिविषया वृत्तिर्जागरे स्मृतिदर्शनात् ।।५।। ___ निद्रा चेति । अभावप्रत्ययाऽऽलम्बना = 'भावप्रत्ययालम्बनविरहिता वासना च निद्रा स्मृता, सन्ततमुद्रिक्तत्वात्तमसः । समस्तविषयपरित्यागेन या प्रवर्तत इत्यर्थः । तदाह"अभावप्रत्ययालम्बना वृत्तिर्निद्रा” (योगसूत्र १-१०) । इयं च जागरे = जाग्रदवस्थायां स्मृतिदर्शनात् = 'सुखमहमस्वाप्सं' इति स्मृत्यालोचनात् सुखादिविषया वृत्तिः, स्वापकाले सुखाऽननुभवे तदा तत्स्मृत्यनुपपत्तेः ।।५।।
तथानुभूतविषयाऽसम्प्रमोषः स्मृतिः स्मृता'।
आसां निरोधः शक्त्याऽन्तःस्थितिहेतौ बहिर्हतिः ।।६।। तथेति । तथाऽनुभूतविषयस्य = प्रमाण-विपर्यय-विकल्प-निद्रानुभूतार्थस्य असम्प्रमोषः = संस्कारद्वारेण बुद्धावुपारोहः (=तथाऽनुभूतविषयाऽसम्प्रमोषः) स्मृतिः स्मृता । तदाह"अनुभूतविषयासम्प्रमोषः स्मृतिरिति” (योगसूत्र १-११)। आसां = उक्तानां पञ्चानामपि वृत्तीनां हेतौ = स्वकारणे शक्त्या = शक्तिरूपतया अन्तः = बाह्याऽभिनिवेशनि- १. हस्तादर्श 'भावप्रत्यया' नास्ति । २. हस्तादर्श 'स्मृता' पदं नास्ति । ३. हस्तादर्श 'वैक..' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'निदा' इत्यशुद्धः पाठः । ५. हस्तादर्श'...कारणै' इत्यशुद्धः पाठः । ६. हस्तादर्श 'तयां' इत्यशुद्धः पाठः ।
१८७।।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org