SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ।। वृत्त्या' अन्तर्मुखतया स्थितिः = अवस्थानं बहिर्हतिः = प्रकाश-प्रवृत्ति-नियमरूपविघातः । एतदुभयं निरोध उच्यते ।।६।। स चाभ्यासाच्च वैराग्यात्तत्राऽभ्यासः स्थितौ श्रमः । __ दृढभूमिः स च चिरं नैरन्तर्याऽऽदराऽऽश्रितः ।।७।। ___ ‘स चेति । स च = उक्तलक्षणो निरोधश्च अभ्यासाद् वैराग्याच्च भवति। तदुक्तं“अभ्यासवैराग्याभ्यां तन्निरोध इति” (योगसूत्र १-१२) । तत्राभ्यासः स्थितौ = वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठे परिणाम श्रमः = यत्नः पुनः पुनस्तथात्वेन चेतसि 'निवेशनरूपः । तदाह- "तत्र स्थितौ यत्नोऽभ्यास इति” (योगसूत्र १-१३)। स च चिरं = चिरकालं नैरन्तर्येण आदरेण चाश्रितो (=नैरन्तर्यादराश्रितः) दृढभूमिः = स्थिरो भवति । तदाह‘स तु दीर्घकाल-नैरन्तर्यसत्काराऽऽसेवितो दृढभूमि रिति (योगसूत्र १-१४) ।।७।। “या वशीकारसंज्ञा स्याद् दृष्टाऽऽनुश्रविकाऽर्थयोः । वितृष्णस्याऽपरं तत् स्याद्वैराग्यमनधीनता ॥८॥ येति । दृष्टः = इहैवोपलभ्यमानः शब्दादिः। आनुश्रविकश्च अर्थो = देवलोकादिः, । अनुश्रूयते गुरुमुखादित्यनुश्रवः = वेदः, ततः प्रतीयमान आनुश्रविक इति व्युत्पत्तेः । तयोः १. हस्तादर्श 'निवृत्त्यां' इत्यशुद्धः पाठः। २. मुद्रितप्रतौ 'बहिहतिः' इत्यशुद्धः पाठः। ३. हस्तादर्श '...विद्यात' इत्यशुद्धः पाठः । ४. हस्तादर्श 'निवेशेन...' इति पाठः । ५. हस्तादर्श 'यो' इत्यशुद्धः पाठः । ।।१८८ ११/८ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy