________________
2 94 4 4 424
।। (=दृष्टानुश्रवि-कार्थयोः) परिणामविरसत्वदर्शनात् वितृष्णस्य = विगतगर्द्धस्य या वशीकारसंज्ञा
= “ममैवैते' वश्या नाऽहमेतेषां वश्यः” इत्येवं विमर्शात्मिका (स्यात्) तत् अपरं = वक्ष्यमाणपरवैराग्यात्पाश्चात्यं वैराग्यं स्यात् अनधीनता = फलतः पराधीनताऽभावरूपं । ____ तदाह- “दृष्टानुश्रविकविषयवितृष्ण्यस्य' वशीकारसंज्ञा वैराग्यमिति” (योगसूत्र १-१५) ।।८।।
तत्परं जातपुंख्यातेर्गुणवैतृष्ण्यसंज्ञकम् ।
बहि:मुख्यमुत्पाद्य वैराग्यमुपयुज्यते ॥९॥ ___'तदिति । जातपुंख्यातेः = उत्पन्नगुणपुरुषविवेकख्यातेः । गुणवैतृष्ण्यसंज्ञकं = गुणेष्वपि तृष्णाऽभावलक्षणं यथार्थाऽभिधानं परं = प्रकृष्टं तत् = वैराग्यम् । तदाह“तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यमिति (योगसूत्र १-१६)"।
प्रथमं हि विषयविषयं, द्वितीयं च गुणविषयमिति भेदः । बहिः = बाह्यविषये वैमुख्यं = दोषदर्शनजत्वात् प्रवृत्त्यभावलक्षणं उत्पाद्य वैराग्यमुपयुज्यते = उपकाराऽऽधायकं भवति ॥९॥
निरोधे पुनरभ्यासो जनयन स्थिरतां दृढाम् ।
परमानन्दनिष्यन्दशान्तश्रोतःप्रदर्शनात् ॥१०॥ १. हस्तादशैं 'ममैव' इति त्रुटितः पाठः । २. मुद्रितप्रतौ 'वैतृष्ण्यस्य' इति पाठः । ३. हस्तादर्श ....ख्यतेः' इति त्रुटितः पाठः ।
का
।।।।१८९।
११/१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org