SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पा त ञ्ज 35 ho do ल ग ल क्ष ण द्वा त्रिं शि का ११/११ Jain Education International 'निरोध' इति । निरोधे चित्तवृत्तिनिरोधे अभ्यासः पुनर्दृढां = अतिशयितां स्थिरतां = `अवस्थितिलक्षणां जनयन् परमानन्दनिष्यन्दस्य = अतिशयितसुखार्णवनिर्झरभूतस्य शान्तश्रोतसः = शान्तरसप्रवाहस्य प्रदर्शनात् (= परमानन्दनिष्यन्दशान्तश्रोतः प्रदर्शनात् ) उपयुज्यते इत्यन्वयः, तत्रैव सुखमग्नस्य मनसोऽन्यत्र गमनाऽयोगात् । इत्थं च चित्तवृत्तिनिरोध इति योगलक्षणं सोपपत्तिकं व्याख्यातम् ।।१०।। अथैतद्दूषयन्नाह - = = न चैतद्युज्यते किञ्चिदात्मन्यपरिणामिनि । कूटस्थे स्यादसंसारोऽमोक्षो वा तत्र हि ध्रुवम् ।।११।। 'न चे 'ति । न चैतत् = पूर्वोक्तं किञ्चित् अपरिणामिनि आत्मनि युज्यते । आत्मनि हि कूटस्थे= " एकान्तैकस्वभावे सति । असंसारः = संसाराभाव एव स्यात्, पुष्करपत्रवन्निर्लेपस्य तस्याऽविचलितस्वभावत्वात् । तत्र = = अमोक्षः प्रकृतितद्विकारोपहितस्वभावे च तस्मिन् संसारदशायामभ्युपगम्यमाने ध्रुवं निश्चितं मोक्षाभावो वा स्यात्, मुक्तिदशायां पूर्वस्वभावस्य त्यागे कौटस्थ्यहानिप्रसङ्गात् ।। ११ ।। १. मुद्रितप्रतौ 'निरोधचि..' इत्यशुद्धः पाठः । २. हस्तादर्शे 'अवस्थित ' इति पाठः । ३. मुद्रितप्रतौ 'श्रान्त..' इति अशुद्धः पाठः । ४. मुद्रितप्रती 'अथत.' इति त्रुटितः पाठः । ५. मुद्रितप्रतौ 'एकान्तिक ....' इति पाठः । For Private & Personal Use Only ।।१९० ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy