________________
पा
त
ञ्ज
35 ho do
ल
ग
ल
क्ष
ण
द्वा
त्रिं
शि
का
११/११
Jain Education International
'निरोध' इति । निरोधे चित्तवृत्तिनिरोधे अभ्यासः पुनर्दृढां = अतिशयितां स्थिरतां = `अवस्थितिलक्षणां जनयन् परमानन्दनिष्यन्दस्य = अतिशयितसुखार्णवनिर्झरभूतस्य शान्तश्रोतसः = शान्तरसप्रवाहस्य प्रदर्शनात् (= परमानन्दनिष्यन्दशान्तश्रोतः प्रदर्शनात् ) उपयुज्यते इत्यन्वयः, तत्रैव सुखमग्नस्य मनसोऽन्यत्र गमनाऽयोगात् ।
इत्थं च चित्तवृत्तिनिरोध इति योगलक्षणं सोपपत्तिकं व्याख्यातम् ।।१०।।
अथैतद्दूषयन्नाह
-
=
=
न चैतद्युज्यते किञ्चिदात्मन्यपरिणामिनि ।
कूटस्थे स्यादसंसारोऽमोक्षो वा तत्र हि ध्रुवम् ।।११।। 'न चे 'ति । न चैतत् = पूर्वोक्तं किञ्चित् अपरिणामिनि आत्मनि युज्यते । आत्मनि हि कूटस्थे= " एकान्तैकस्वभावे सति । असंसारः = संसाराभाव एव स्यात्, पुष्करपत्रवन्निर्लेपस्य तस्याऽविचलितस्वभावत्वात् ।
तत्र =
=
अमोक्षः
प्रकृतितद्विकारोपहितस्वभावे च तस्मिन् संसारदशायामभ्युपगम्यमाने ध्रुवं निश्चितं मोक्षाभावो वा स्यात्, मुक्तिदशायां पूर्वस्वभावस्य त्यागे कौटस्थ्यहानिप्रसङ्गात् ।। ११ ।।
१. मुद्रितप्रतौ 'निरोधचि..' इत्यशुद्धः पाठः । २. हस्तादर्शे 'अवस्थित ' इति पाठः । ३. मुद्रितप्रतौ 'श्रान्त..' इति अशुद्धः पाठः । ४. मुद्रितप्रती 'अथत.' इति त्रुटितः पाठः । ५. मुद्रितप्रतौ 'एकान्तिक ....' इति पाठः ।
For Private & Personal Use Only
।।१९० ।।
www.jainelibrary.org