________________
F BEF
'प्रकृतेरपि चैकत्वे मुक्तिः सर्वस्य नैव वा ।
जडायाश्च पुमर्थस्य कर्तव्यत्वमयुक्तिमत् ।।१२।। प्रकृतेरिति । प्रकृतेरपि चैकत्वेऽभ्युपगम्यमाने सर्वस्य मुक्तिः स्यात्, नैव वा कस्यचित् स्यात् । एकं प्रति विलीनोपधानायास्तस्याः सर्वान्प्रति तथात्वात्, एकं प्रत्यतादृश्याश्च सर्वान् प्रत्यतथात्वात् । अन्यथा स्वभावभेदे प्रकृतिभेदप्रसङ्गात् ।
किं चात्मनोऽव्याप्रियमाणस्य भोगसम्पादनार्थमेव प्रकृतिः प्रवर्तत इति भवतामभ्युपगमः । तदुक्तं- “द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः (योगसूत्र २-२०) । तदर्थ एव दृश्यस्यात्मेति" (यो.सू.२-२१) । जडायाश्च तस्याः पुमर्थस्य कर्तव्यत्वमयुक्तिमत् । “पुरुषार्थो मया कर्तव्य" इत्येवंविधाऽध्यवसायो हि पुरुषार्थकर्तव्यता, तत्स्वभावे च 'प्रकृतेर्जडत्वव्याघात इति ।।१२।। अत्र स्वसिद्धान्ताऽऽशयं प्रकटयन् पूर्वपक्षी शङ्कते
ननु चित्तस्य वृत्तीनां सदा ज्ञाननिबन्धनात् ।
चिच्छायासंक्रमाद्धेतोरात्मनोऽपरिणामिता ।।१३।। नन्विति । ननु चित्तस्य वृत्तीनां प्रमाणादिरूपाणां सदा = सर्वकालमेव । ज्ञाननिबन्धनात् = 'परिच्छेदहेतोः चिच्छायासक्रमाद् हेतोः = लिङ्गात् आत्मनोऽपरिणामिताऽनुमीयते । १. मुद्रितप्रतौ 'प्रकृरतेरपि' इत्यशुद्धः पाठः । २. हस्तादर्श 'तत्सद्भावे' इति पाठान्तरम् । ३. हस्तादर्श 'प्रकृतिज...' इति पाठः । ४. मुद्रितप्रतौ 'परि...' इत्यशुद्धः पाठः ।
॥१९
॥
११/१३ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org